तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 288, कुल 368 में से
संदर्भ में पढ़ें२७८ श्रीतन्त्रालोकः । ननु उद्घातितात्मप्रथारूपत्वे सति लक्षणस्य सामान्यविशेषयोर्द्वयोरपि प्रथनात् किं लक्ष्यं ? किं वा लक्षणम् ? इत्यत्र विवेकाभावादनियमः* स्यात् इत्याशंक्याह स्रक्ष्यमाणस्य या सृष्टिः प्राक्सृष्टांशस्य संहतिः । अनूद्यमाने धर्मे सा संविल्लक्षणमुच्यते ॥२६६॥ इह विशेषसामान्यविषयसृष्टिसंहृतिमयी संवित् लक्षणं - व्यवहरणबीजमिति । तत्र सृज्यमानस्य विशेषांशस्य विधेयतया लक्षणत्वं वाच्यं, संह्रिय- माणस्य च सामान्यांशस्य अनूद्यमानतया लक्ष्य- त्वम् इत्यस्त्येव विवेकः ॥२६६॥ ननु 'भूयो भूयः समुद्देशलक्षणात्म परीक्षणम् ।' *यदि च पूर्वमनुल्लिखितविशेषा सामान्यस्थितिः पश्चाद्विशेषोदयः तदा सामान्य- विशेषयोर्वैविक्त्येन प्रथनाल्लक्ष्यलक्षणभावो व्यवस्थित एव, यदा तु पूर्वमपि सामा- न्यावस्थायां विशेषावस्थितिस्तदा परस्परमत्र नियमाभाव इति 'एकत्र द्वियोगः संकरा- ख्यदोषदूषितः संभवेदिति भावः ।' पं० १० क० ग० पु० लक्षणव्यवहरणबीजं सा इति पाठः ।