तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 27, कुल 368 में से
संदर्भ में पढ़ेंश्लो० ३ ] प्रथममाह्निकम् । १७ 'इच्छात्वं तस्य सा देवि सिसृक्षोः प्रतिपद्यते ।' इत्याद्युक्त्या चिद्रूपा चासौ 'प्रतिभा' प्रज्ञा, ताम् आद्योच्छलत्तात्मकत्वेन बहिरुल्लिलसिषास्वभावाम्, अत एव 'देवीं' प्रमातुरपि विश्रान्तिधामत्वात् प्रमिति- रूपतया द्योतमानाम्, अत एव बहिरपि प्रमातृप्रमाण- प्रमेयाण्येव 'अंशा' अरारूपा भागा यस्य 'शूलस्य' तत्र यानि औन्मनसानि अम्बुजानि, तत्र 'कृतास्पदां' तदुत्तीर्णतया भासमानां 'नौमि' देहप्राणादिप्रमातृ- रूपन्यग्भावेन तत्स्वरूपमाविशामि-इत्यर्थः ॥२॥ एवमुक्तेऽपि परास्वरूपेऽपरास्वरूपमनभिधाय, तदुभयमयस्य परापरस्वरूपस्य वक्तुमशक्यत्वात् क्रमप्राप्तां परापरां देवीं परिहृत्य, प्रथमं तावदपरां देवीमभिमुखयति नौमि देवीं शरीरस्थां नृत्यतो भैरवाकृते । प्रावृरामेघघनव्योमविद्युल्लेखाविलासिनीम् ॥३॥ पं० २ ख० पु० प्रज्ञापदं नास्ति । पं० ६ क० पु० अणुरूपा भागा इति पाठः । पं० ८ ख० पु० प्राणाभिमातृरूपेति पाठः । पं० ११ क० पु० परापरस्वरूपस्येति पाठः । पं० १२ क० पु० परापरदेवीमिति पाठः । ३