तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 28, कुल 368 में से
संदर्भ में पढ़ें१८ श्रीतन्त्रालोकः । 'नृत्यतो' ‘नर्तक आत्मा’ ( शि० ३ उ० ९ सू० ) इति शिवसूत्रदृष्ट्या निगूहितस्वस्वरूपावष्टम्भमूलं तत्तद्विश्ववैचित्र्यभूमिकाप्रपञ्चं प्रकाशयतो ‘भैरवा- कृतेः’ पूर्णस्वरूपस्य परमात्मनः ‘शरीरस्थाम्’ ‘एवंभूतमिदं वस्तु भवत्विति यदा पुनः । जाता तदैव तद्वस्तु कुर्वत्यत्र क्रियोच्यते ॥’ इत्याद्युक्त्या तत्तत्प्रमातृप्रमेयाद्यनन्ताभासवैचित्र्य- कारितया स्वरूपाविष्टाम्, अत एव ‘देवीं’ जगदुल्ला- सनक्रीडाकारिणीम् अपरां भगवतीं ‘नौमि’ इति संबन्धः । अत एव बहिरपि विश्वात्मना द्योतमा- नत्वेऽपि ‘भेदभावकमायीयतेजोंशग्रसनाच्च तत् । सर्वसंहारकत्वेन कृष्णां तिमिररूपधृत् ॥’ इत्याद्युक्तस्वरूपे परप्रमातर्येव विश्रान्तत्वात् कृष्ण- पिङ्गलरूपाम् इत्युक्तं ‘प्रावृण्मेघघनव्योमविद्युल्लेखा- विलासिनीम्’ इति ॥ ३ ॥ पं० ४ क० ख० पु० तत्तद्वैचित्र्येति पाठः ।