तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 29, कुल 368 में से
संदर्भ में पढ़ेंश्लो० ४ ] प्रथममाह्निकम् । १९ अथ परापरोभयस्वरूपमयीं परापरां देवीं परा- मृशति । दीप्तज्योतिश्छटाप्लुष्टभेदबन्धत्रयं स्फुरत् । स्ताज्ज्ञानशूलं सत्पक्षाविपक्षोत्कर्तनक्षमम् ॥४॥ 'ज्ञानं' 'एवमेतदिदं वस्तु नान्यथेति सुनिश्चितम् । ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते ॥' इत्याद्युक्तज्ञानशक्तिस्वभावमपि अन्तरासूत्रितेच्छा- क्रियात्मकम्, अत एव परापराशब्दव्यपदेश्यम्, अत एव तत् 'लोलीभूतमतः शक्तित्रितयं तत्रिशूलकम् ।' इति वक्ष्यमाणनीत्या 'त्रिशूलम्' अत एव 'दीप्ताभिः' अप्रतिहताभिः तत्तदिन्द्रियवृत्तिरूपाभिः 'ज्योति- श्छटाभिः 'यत्र यत्र मिलिता मरीचय- स्तत्र तत्र विभुरेव जृम्भते ।' इत्यादिनीत्या वक्ष्यमाणस्वरूपस्य भेदप्रधानस्य बन्धहेतुत्वात् बन्धरूपस्य आणवादिमलत्रयस्य प्लोष- पं० १ क० ख० पु० परापरादेवीमिति समस्तः पाठः ।