भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 30, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 30

२० श्रीतन्त्रालोकः । कम्, अत एव ‘स्फुरत्’ शुद्धबोधैकरूपतया स्फुरत्ता- सारम्, अत एव ‘सन्’ च असौ ‘पक्षो’ जगदानन्द- स्तस्य ‘विपक्षाः’ तदप्रथारूपा निजानन्दाद्या आनन्दा४ अनानन्दाश्च तेषाम् ‘उत्कर्तनं’ पूर्णप्रथात्मकत्वेन क्षपणं, तत्र ‘क्षमं’ समर्थं ‘स्तात्’ इति वाक्यार्थः । तदुक्तं ‘जयन्ति जगदानन्दविपक्षक्षपणक्षमाः । परमेशमुखोद्भूतज्ञानचन्द्रमरीचयः ॥’ इति ॥ ४ ॥ इदानीमपरमपि त्रिकं पराम्रष्टुमाह स्वातन्त्र्यशक्तिः क्रमसंसिसृक्षा क्रमात्मता चेति विभोर्विभूतिः । तदेव देवीत्रयमन्तरास्ता- मनुत्तरं मे प्रथयत्स्वरूपम् ॥ ५ ॥ ‘स्वातन्त्र्यरूपा शक्तिः’ यस्यासौ अनन्तशक्ति- र्भगवान् शिवः, ‘क्रमस्य’ ४ शून्यप्रभृतिव्यानान्ता विश्रान्तिरूपनिजानन्द-निरानन्द-परानन्द-ब्रह्मानन्द- महानन्द-चिदानन्दरूपाः षडानन्दभूमय इति । पं० १४ ख० पु० प्रथयत्प्रकाशमिति पाठः ।