तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 309, कुल 368 में से
संदर्भ में पढ़ेंश्लोकः ३२६ ] प्रथमाह्निकम् । २६६ द्विविधस्य, वाचकात्मनो विश्वस्य च परामर्शोदय- क्रममन्त्रार्थभिन्नरूपत्वाभ्यां संविदनतिरेकात् तदेक- रूपत्वमुच्यते इत्यत्र एतत्प्रमेयत्रयोपक्षेपः । शाक्तस्य च विकल्पकमेव रूपम् इति प्रथमं विकल्पस्यैव संस्कार उक्तः, स च हेयाद्यालोचनद्वारेण तर्केण अभिधीयते इति तदनन्तरं तत्तत्त्वम् । अन्यच्च शुद्धविद्यात्मनस्तर्कस्यैव विस्फूर्जितं यत् तद्वशादेव सद्गुरुप्राप्तिर्भवेत् इति तत्सतत्त्वमुक्तम् । तर्क एव च साक्षाद्योगस्याङ्गम् इति अन्येषां योगाङ्गानामनुप- योगित्वम् — तर्कस्य च शुद्धविद्यात्मतया भेदभावक- मायीयविकल्पप्रतिघातित्वात् कल्पितस्य अर्चादेर- नादरः तत एवाविकल्पसंस्कारस्य दाढ्यात् संवि- च्चक्रोदयः, तदुदय एव च मन्त्राणां परं वीर्यं, तथामर्श एव च वास्तवं जप्य्यादि, अत एव च संविदि भेदाभावात् निषेधविधितुल्यत्वम् इत्येतन्नवसंख्याकं प्रमेयमुपक्षिप्तम् । एवमाणवादावपि बुद्धिध्यानादेः साक्षात्तदौपायिकत्वम् इत्येतदस्माभिः — स्पष्टत्वात् पं० ५ क० पु० स चाहन्ताद्यालोचनद्वारेणेति, ख० पु० स चोपायाद्यालो- चनेति पाठः ।