तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
DevanagariSanskritpublished368 पृष्ठ
पृष्ठ 320, कुल 368 में से
संदर्भ में पढ़ेंपृष्ठ 320
३१० श्रीतन्त्रालोकः । पटौ इति पाक्षिकः पुंवद्भावः । इति शिवम् ॥ श्रीशृङ्गाररथादवाप्य कृतिनो जन्मानवद्यक्रमं श्रीमच्छङ्खधरात्परं परिचयं विद्यासु सर्वासपि । श्रीकल्याणतनोः शिवादधिगमं सर्वागमानामपि व्याख्यातं प्रथमाह्निकं जयरथेनात्रावधेयं बुधैः ॥ — इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते तन्त्रालोके श्रीमद्राजानकजयरथकृतप्रकाशाख्यव्याख्योपेते विज्ञान- भेदप्रकाशनं नाम प्रथममाह्निकं समाप्तिगमत् ॥ एतत्कश्मीरभूपालसंश्रितेन प्रकाशितम् । सता मुकुन्दरामेण सन्मुदे स्ताच्छिवेर्पितम् ॥ श्रीशिवार्पणमस्तु ॥ —