तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 319, कुल 368 में से
संदर्भ में पढ़ेंश्लोक ३३३ ] प्रथमाह्निकम् । ३०६ र्यज्ञाः इत्यर्थः, अत एव शिवसद्भावमयाः - परप्रमात्रे- कात्मज्ञानशालिनः इति यावत्, अत एव च गुरवः- तात्त्विकार्थोपदेशिनः इति - एतदधिगमाय त एव परमाधिकारिणः इत्युक्तं यतः प्रविचारणेऽधिक्रि- यन्ते इति, यद्वक्ष्यति 'गुरोर्लक्षणमेतावदादिमान्त्यं च वेद्ययेत् । पूज्यः सोऽहमिव ज्ञानी भैरवो देवतात्मकः ॥' इति ॥३३३॥ इह आह्निकादाह्निकान्तरस्य संचयन्यायेन पर- स्परमनुस्यूततां दर्शयितुम् एकेनैव श्लोकेन तत्पर्य- न्तप्रारम्भयोरुपसंहारोपक्रमौ करोति, इति 'अस्य ग्रन्थकारस्य शैली'-इति श्लोकस्य प्रथमार्धेन आह्निकार्थमुपसंहरति तन्त्रालोकेऽभिनवरचिते- ऽमुत्र विज्ञानसत्ता- भेदोद्गारप्रकटनपटा- वाह्निकेऽस्मिन्समाप्तिः । पं० ३ क० पु० अधिगमाय अत एव परमाधिकारिण इति पाठः । पं० ६ ग० पु० आद्यमन्त्यं चेति पाठः ।