भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 318, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 318

३०८ श्रीतन्त्रालोकः । परेषां विदुषामभ्यर्थना क्रियतां, यदत्र यथावस्त्वेव बुद्ध्वा द्वेषो मा कार्यः ? इत्याशङ्क्याह इह गलितमलाः परावरज्ञाः शिवसद्भावमया अधिक्रियन्ते । गुरवः प्रविचारणे यतस्तद्- विफला द्वेषकलंकहानियाच्ञा ॥३३३॥ इह द्वये पुरुषाः सन्ति - अनायातशक्तिपाता आ- यातशक्तिपाताश्च, तत्र पूर्वेषां शतशोऽभ्यर्थिता- नाम् एतदधिगमाय मनोऽपि न प्रसरति, इत्यत्र अवधातव्यम्, द्वेषो माकार्यः इत्यभ्यर्थनाया असा- मर्थ्यम् । अपरे च अनभ्यर्थिता अपि स्वयमेव एत- दधिगमाय प्रवर्तन्ते इति तत्रापि एवमभ्यर्थनाया वैयर्थ्यम् । तदाह 'द्वेषकलङ्कहानियाच्ञा' इति । आया- तशक्तिपाताश्च कीदृशाः ? इत्याह गलितमलाः इति, गलितं मलम् - अज्ञानं येषां ते तथाविधाः, अत एव च परम् आदिमम् अनुत्तरम् अवरम् अन्त्यं विसर्गं च ये जानते ते पराहंपरामर्शात्मकमन्त्रवी- पं० ५ ग० पु० प्रविचारणे धियस्तदिति च पाठः ।