भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 317, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 317

श्लोक ३३२ ] प्रथमाह्निकम् । ३०७ इत्यादिस्थित्या विविधाभिर्भङ्गीभिः नर्तयन् यत् संक्रीडसे - नटवत् अतात्त्विकेन रूपेण समुल्लससि, अतः स सर्वो वादी असहृदयमपि आत्मानं सहृदय- त्वेन मन्यमानोऽत एव दुःशिक्षितो मिथ्याभिमानात् अकिंचिज्ज्ञः, त्वां भावव्रातं, जडम् - अचेतनम् आह, अतोऽस्माभिरुत्प्रेक्ष्यते - यत् अमुष्य वादिनो वस्तुत- श्चैतन्यस्वभावेन भवता यत् साम्यं तस्य संभावनात् भाववत्त्वमेव जडात्मा इति यद्युच्यते सा अस्य निन्दा- स्थाने स्तुतिः । भावानां हि वस्तुतश्चैतन्यमेव रूपम् अचेत्यमानत्वे हि तेषां न किंचिद्रूपं स्यात्, अत- स्तदेव ये न जानते ते जडेभ्योऽपि जडाः इति कथं च तेषां चेतनात्मकैर्भावैः निन्दापर्यवसायि साम्यं स्यात् इति भावः । एवं प्रकृतेऽपि अस्य ग्रन्थस्य यस्तत्त्वं न जानाति मा ज्ञासीत्, प्रत्युत अन्यथापि यत्किंचन वक्ति इत्यसावेव जडो, न पुनरस्य ग्रन्थस्य कश्चिद्दोषः इत्यर्थः ॥३३२॥ ननु यद्येवं तर्हि एतच्छास्त्राधिगमाय केषांचन पं० ६ क० पु० भावानां हि भावना वस्तुत इति पाठः ।