तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 331, कुल 368 में से
संदर्भ में पढ़ेंश्लोक १० ] द्वितीयमाह्निकम् । ६ प्रकाशते, अपि तु परस्य, इति - पर एवास्य प्रकाशः, अजडस्तु स्वयं प्रकाशात्मा स्वात्मन एव प्रकाशते, न परस्य, इति - न परोऽस्य प्रकाशोऽपितु स्व एव अस्य प्रकाशः, तस्यापि परप्रकाशत्वे ह्यप्रकाशात्म- त्वात् जाड्यं स्यात्, अत एवाह 'स्वप्रकाशे तच्च तत्रान्यतः कथम्' इति प्रकाशत्वम्, एवं चान्योऽपि स्वप्रकाशो वा स्यात् अन्यथा वा, स्वप्रकाशत्वे प्रथमस्यैव तथाभाव उच्यताम्, अनेनापि कोऽर्थः, अन्यथात्वे तस्यापि जाड्यापत्तिः, इति प्रकाशत्वात्त- त्प्रकाशनाय प्रमात्रन्तरापेक्षायामनवस्थापत्तिः, इति सर्वेषामेव अप्रकाशात्मत्वान्न किंचिदपि प्रकाशेत, इति - सर्वमिदमन्धं स्यात् ॥६॥ तदाह संवित्तत्त्वं स्वप्रकाश- मित्यस्मिन्किं नु युक्तिभिः । पं० २ ख० पु० अजडस्तद्द्वयं प्रकाशेति पाठः । पं० ७ क० पु० स्वप्रकाशकः स्यादिति पाठः । पं० ८ क० पु० तथा उत्पद्यतामिति ख० पु० भाव उच्यतामिति पाठः । २