तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 332, कुल 368 में से
संदर्भ में पढ़ें१० श्रीतन्त्रालोकः । तदभावे भवेद्विश्वं जडत्वादप्रकाशकम् ॥१०॥ किं नु युक्तिभिरिति-बह्वीभिर्युक्तिभिर्न किंचित्प्र- योजनमित्याह, एकैव हि युक्तिरियं सर्वातिशायिनी- यत्संविदः स्वप्रकाशत्वं यदि न स्यात्, न किंचिदपि प्रकाशेत इति ॥१०॥ ननु यदि नाम अत्र न बाह्यः क्रियादिः प्रग- ल्भते तदा गुरुज्ञानादि उपायतां भजताम् ? इत्या- शंक्याह यावानुपायो बाह्यः स्या- दान्तरो वापि कश्चन । स सर्वस्तन्मुखप्रेक्षी तत्रोपायत्वभाक्कथम् ॥११॥ यावानिति-नानाशास्त्रोपदिष्टः, सर्व इति-बाह्य आन्तरो वा, तन्मुखप्रेक्षीति-संविदधीनसिद्धिरि- त्यर्थः, यदपेक्ष्य हि यस्य सिद्धिरेवं भवति स कथं तस्य उपायतां यायादिति भावः ॥११॥ पं० १६ क० घ० पु० यदपेक्षा हि यस्य सिद्धिरेव भवेत्स कथमिति पाठः।