तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 333, कुल 368 में से
संदर्भ में पढ़ेंश्लोक १३ ] द्वितीयमाह्निकम् । ११ अत एवाह त्यजावधानानि ननु क्व नाम धत्सेऽवधानं विचिनु स्वयं तत् । पूर्णोऽवधानं न हि नाम युक्तं नापूर्णामभ्येति च सत्यभावम् ॥१२॥ इह उपदिश्यमानेन स्वयमेव तावदवधातव्यम् इति परामर्शनीयम्, किं पूर्णे रूपे उतापूर्णे ? तत्र तावत्पूर्णे रूपेऽवधानं न युक्तम्, अवधानं खलु- प्रतिनियतावधेयविषयनिष्ठम् एकाग्र्यम्, अतश्च भेदप्रधानं न किंचित्फलमादातुं समर्थम् ॥१२॥ तस्मादसामर्थ्यवैयर्थ्योपहतत्वादवधानस्यापि यत्र नास्ति उपायभावस्तत्र का वार्ता तदनुप्राणि- तस्य भावनादेः ? इत्याह तेनावधानप्राणस्य भावनादेः परे पथि । भैरवीये कथंकारं भवेत्साक्षादुपायता ॥१३॥ पं० ३ ख० पु० धर्मेऽवधानमिति पाठः । पं० ८ क० पु० अवधानं खलु अप्रतिनियतेति पाठः ।