तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 334, कुल 368 में से
संदर्भ में पढ़ें१२ श्रीतन्त्रालोकः । भैरवीये इति-पूर्णे ॥१३॥ ये पुनरनेनापि उपायेनानुपायं परं तत्त्वमनुसरन्ति तान्प्रति किमुच्यते ? इत्याह येऽपि साक्षादुपायेन तद्रूपं प्राविविक्षते । नूनं ते सूर्यसंवित्त्यै खद्योताधित्सवो जडाः ॥१४॥ तदुक्तम् ‘अपरोक्षे भवत्तत्त्वे सर्वतः प्रकटे स्थिते । यैरूपायाः प्रतन्यन्ते नूनं त्वां न विदन्ति ते ॥’ इति ॥ १४ ॥ अत्रैव निमित्तान्तरमप्याह किं च यावदिदं बाह्य- मान्तरोपायसंमतम् । तत्प्रकाशात्मतामात्रं शिवस्यैव निजं वपुः ॥१५॥ पं० २ क० पु० तत्त्वमनुविशन्तीति पाठः । पं० ७ क० पु० खद्योतं लिप्सव इति पाठः । पं० ६ क० पु० प्रकटोदिते इति पाठः । पं० १६ क० पु० परं वपुः इति पाठः ।