तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 341, कुल 368 में से
संदर्भ में पढ़ेंश्लोक २४ ] द्वितीयमाह्निकम् । १६ प्रकाशमात्रमुदित- मप्रकाशनिषेधनात् । एकशब्दस्य न त्वर्थः संख्या चिद्व्यक्तिभेदभाक् ॥२३॥ अप्रकाशः – प्रकाश्यो नीलादिर्बाह्योऽर्थस्तावन्नि- षिद्धः, अतः 'प्रकाशः केवलोऽस्ति' इत्येकशब्दस्या- त्रासहायाद्वृत्तिः, तदुक्तं 'एकशब्दस्यार्थः प्रकाशमा- त्रमुदितम्' इति, न पुनः प्रकाशभेदभाक् इत्येकद्वि- त्र्यादिलक्षणः संख्यार्थो, येन – मतान्तराण्यप्यपो- ह्यतया संभावनीयानि स्युः ॥२३॥ अत एवात्र भेदागूरकं व्यवहारमात्रमपि न ज्ञायते, इत्याह नैष शक्तिर्महादेवी न परत्राश्रितो यतः । पं० ३ क० पु० नन्वर्थ इति पाठः । पं० ६ क० पु० एकशब्दस्यासहाया वृत्तिरिति पाठः । पं० ७ ख० पु० शब्दस्यार्थः प्रकाशमानं तदितरदितरदिति न पुनरिति पाठः । पं० ८ क० पु० एकद्वित्वादिलक्षणसत्तानन्तराख्यान्यापोहतयेति पाठः ।