तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 342, कुल 368 में से
संदर्भ में पढ़ें२० श्रीतन्त्रालोकः । न चैष शक्तिमान्देवो न कस्याप्याश्रयो यतः ॥२४॥ नैष ध्येयो ध्यात्रभावा- न्न ध्याता ध्येयवर्जनात् । न पूज्यः पूजकाभावा- त्पूज्याभावान्न पूजकः ॥२५॥ न मन्त्रो न च मन्त्र्योऽसौ न च मन्त्रयिता प्रभुः । न दीक्षा दीक्षको वापि न दीक्षावान्महेश्वरः ॥२६॥ एष इति - व्याख्यातस्वरूपः परः प्रकाशः, शक्ति- शक्तिमदादयो हि शब्दाः संबन्धिशब्दत्वान्नित्यसा- पेक्षाः इत्यन्यागूरणमन्तरेण स्वार्थ एव विश्रान्तिं लभन्ते, इति तैः क्रियमाणो व्यवहारो भेदनिष्ठ एव स्यात्, न चात्र परप्रमात्रेकात्मनि प्रकाशे भेदः कश्चिदस्ति, इत्येवं - व्यवहारमात्रतां कदाचिदपि स पं० ५ क० पु० न पूजा पूजकेति पाठः ।