भारतकोश
संग्रह पर लौटें

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

२० श्रीतन्त्रालोकः । न चैष शक्तिमान्देवो न कस्याप्याश्रयो यतः ॥२४॥ नैष ध्येयो ध्यात्रभावा- न्न ध्याता ध्येयवर्जनात् । न पूज्यः पूजकाभावा- त्पूज्याभावान्न पूजकः ॥२५॥ न मन्त्रो न च मन्त्र्योऽसौ न च मन्त्रयिता प्रभुः । न दीक्षा दीक्षको वापि न दीक्षावान्महेश्वरः ॥२६॥ एष इति - व्याख्यातस्वरूपः परः प्रकाशः, शक्ति- शक्तिमदादयो हि शब्दाः संबन्धिशब्दत्वान्नित्यसा- पेक्षाः इत्यन्यागूरणमन्तरेण स्वार्थ एव विश्रान्तिं लभन्ते, इति तैः क्रियमाणो व्यवहारो भेदनिष्ठ एव स्यात्, न चात्र परप्रमात्रेकात्मनि प्रकाशे भेदः कश्चिदस्ति, इत्येवं - व्यवहारमात्रतां कदाचिदपि स पं० ५ क० पु० न पूजा पूजकेति पाठः ।

श्लोक २७ ] द्वितीयमाह्निकम् । २१ न यायात्, अतश्च नायं शक्तिः, सा हि परं शक्तिम- न्तमाश्रित्यैव वर्तते इत्यनपेक्षत्वाद्भेदाविर्भावे प्रकाश एवैकः, इति प्रतिज्ञाया हानिः स्यात्, एवं शक्तिमच्छ- ब्दव्यवहारोऽपि नायं, सोऽपि हि परं शक्तिलक्षण- मर्थमुररीकृत्यैव वर्तते, इति भेद एवापतेत्, एवं ध्येयादावपि ज्ञेयं, मन्त्र इति मन्त्रस्य प्रणवादेर्वा- च्यः, मन्त्रयिता मन्त्राणां पाठकः, न दीक्षेति कर्तृ- कर्मापेक्षित्वात्, अत्र च माहेश्वर्ये प्रभुत्वं हेतुः ॥ २४-२५-२६ ॥ अत एव यत्किंचन भेदाधायकं तदत्र नास्ति, इत्याह स्थानासननिरोधार्घ- संधानावाहनादिकम् । विसर्जनान्तं नास्त्यत्र कर्तृकर्मक्रियोज्झिते ॥२७॥ पं० २ ग० पु० इत्यनाक्षेपादिति पाठः । पं० ४ क० ख० पु० सोऽपि स्वशक्तिलक्षणमुररीकृत्य इति पाठः । पं० ६ ख० पु० मन्त्र्य इति मन्त्रस्यास्येति पाठः ।

२२ श्रीतन्त्रालोकः । स्थानं-स्थापनमुद्रया भगवतोऽवस्थानम्, आसनं- संनिधानमुद्रया पूजां प्रति औन्मुख्यं, निरोधः-तत्रै- वाविचलत्त्वेनावस्थानम्, अर्घोऽष्टाङ्गः, संधानं मन्त्रा- दिविषयम्, आवाहनं-अनभिमुखस्याभिमुखीकरणं, विसर्जनम् - अभिमुखीभूतस्यानभिमुखीकरणम्, एषामावाहनादिविसर्जनान्तानामसत्त्वे हेतुगर्भं विशे- षणं - 'कर्तृ इत्यादि' कर्त्रादीनां हि विकल्पैकपरमार्थ- त्वात्, प्रकाशस्य च परप्रमात्रेकात्मकत्वेनाविकल्प्य- त्वात् न केनचिदपि व्यपदेशेन व्यपदेष्टुं शक्यते, इति 'नैष शक्तिः' इत्यायुक्तम् ॥२७॥ न चैतद्युक्तिमात्रशरणम्, अपि त्वागमेनापि सिद्धम्, इति श्रीभर्गशिखां संवादयति । न सन्न चासत्सदस- न्न च तन्नोभयोज्झितम् । दुर्विज्ञेया हि सावस्था किमप्येतदनुत्तरम् ॥२८॥ पं० २ ख० पु० पूज्यं प्रति इति पाठः । पं० ७ ख० पु० कर्त्रादयो हि इति पाठः, तदनुसारेण शक्यन्ते इति च समु- चितः प्रतिभाति ।

प्रकाश एव सर्वभावानां परा सत्ता इत्यसत्त्वं

श्लोक ३०] द्वितीयमाह्निकम्। २३ अयमित्यवभासो हि यो भावोऽवच्छिदात्मकः। स एव घटवल्लोके संस्तथा नैष भैरवः ॥२६॥ लोके हि सजातीयव्यावृत्तौ यः कश्चिदर्थः 'अयमिति' पुरोवर्तित्वेनावभासते भावः, स एव 'सत्' इत्यभिधीयते, यथा - घट इति, समनन्तरव्या- ख्यातस्वरूपः प्रकाशः पुनरनन्तभावनिर्भरो न तथा- महासत्तात्मत्वेनानवच्छिन्नत्वात् नैवंरूपः - सच्छब्द- व्यवहार्यो न भवति, इति यावत् ॥२८-२६॥ एवं तर्ह्यसच्छब्दव्यवहार्यो भवेत् ? इत्याशंक्याह असत्त्वं चाप्रकाशत्वं न कुत्राप्युपयोगिता । प्रकाश एव सर्वभावानां परा सत्ता इत्यसत्त्वं नामाप्रकाशत्वमकिंचिद्रूपत्वमुच्यते, यथा - शशवि- पं० २ क० पु० यो भावो वा चिदात्मक इति पाठः । पं० ५ क० पु० व्यावृत्ततायाः कश्चनार्थ इति पाठः । पं० ८ क० ख० पु० पुनरन्तर्भावेति पाठः । पं० ६ क० पु० महासत्तात्मत्वान्नैवमिति पाठः । पं० १२ ग० पु० असत्यं चाप्रकाशस्येति पाठः ।

प्रकाशः पुनर्न तथा इत्याह

२४ श्रीतन्त्रालोकः । षाणादेः, अत एव च तन्न कुत्रापि कस्यांचिदपि अर्थक्रियायामुपयुक्तम् - न कांचिदप्यर्थक्रियां करो- ति, इति यावत् ॥ प्रकाशः पुनर्न तथा इत्याह विश्वस्य जीवितं सत्यं प्रकाशैकात्मकश्च सः ॥३०॥ विश्वस्य - चेतनाचेतनात्मनः सर्वस्य, पारमार्थिकं जीवितं - स्फुरत्तात्मकत्वेन अनुप्राणकं, नहि तेन विना किंचिदपीदं प्रकाशते, इत्युक्तम् 'प्रकाशैकात्म- कश्च' इति - एवमनेकरूपत्वादसच्छब्दव्यवहार्योऽपि, न भवेदिति भावः ॥३०॥ अत एव सदसदात्मापि न, इत्याह आभ्यामेव तु हेतुभ्यां न द्वयात्मा न द्वयोज्झितः । सर्वात्मना हि भात्येष केन रूपेण मन्त्यताम् ॥३१॥ आभ्यां - समनन्तरोक्ताभ्यामनवच्छिन्नत्वप्रका-

श्लोक ३१ ] द्वितीयमाह्निकम् । २५ शमानत्वलक्षणाभ्याम्, ननु यद्येवं तर्हि सदसदात्म- करूषद्वयोत्तीर्णः स्यात् ? इत्याशंक्याह ‘न द्वयेत्यादि’ भावाभावावभासकालेऽपि स एव हि परमवभासते, इति कथं सदसद्भ्यामप्युज्झितः स्यात् ? अत आह ‘सर्वात्मना हि भात्येष’ इति, — एवमेतत्परप्रमात्रे- कात्म भवत्येव अन्यथा ह्यनवच्छिन्नरूपत्वात्कदाचि- दपि विकल्पतां न यायात् इति तात्पर्यार्थः, यदुक्तम् ‘सतोऽवश्यं परमसत्सत्त्व तस्मात्परं विभो । त्वं चासतः सतश्चान्यस्तेनासि सद्सन्मयः ॥’ इति । तथा ‘न शान्तमुदितं वापि तव रूपं न मध्यमम् । रूपं रूपं तव हरे यन्न केनचिदुच्यते ॥’ इति, अतश्च केन तावत्कल्पितेन रूपेण एत- दुच्यते इति न जानीमः, इयं हि दशा विकल्पोपहत- बुद्धीनां मायाप्रमातृणां दुर्विज्ञेया — यथोक्तयुक्त्या ज्ञातुमशक्यैवेत्यर्थः, साक्षात्कृतपरमात्मतत्त्वानामामवि- पं० ५ क० पु० परप्रमाणको भवतीति पाठः । पं० १४ क० पु० केन तावत्क्रियते केनेति पाठः । ४

२६ श्रीतन्त्रालोकः । कल्पवृत्तीनां पुनरेतत्स्वानुभूतिमात्ररूपपरानन्दच- मत्कारघनत्वेन सर्वातिशायि भासते एव, इत्युक्तं 'किमप्येतदनुत्तरम्' इति ॥ ३१ ॥ न केवलमेतदत्रैवोक्तं यावदन्यत्रापि, इत्याह श्रीमत्त्रिशिरसि प्रोक्तं परज्ञानस्वरूपकम् । शक्त्या गर्भान्तर्वर्तिन्या शक्तिगर्भं परं पदम् ॥३२॥ 'परं ज्ञानं कथं देव' इति देवीप्रश्ननिर्णयार्थं ह्येत- दत्र परज्ञानरूपं भगवतोक्तमित्याशयः, तदेव पठति 'शक्त्या' इत्यादि, यदेतत्परं पदं तच्छक्तिगर्भं, शक्ति- रेव स्वातन्त्र्यविमर्शादिपदाभिधेया गर्भः सारं यस्य तत्, सा च न तदतिरेकिणी, इत्याह 'शक्त्या गर्भा- न्तर्वर्तिन्या' इति, यतस्तयैव स्वातन्त्र्याख्यया शक्त्या गर्भोऽन्तरं प्रमात्रैकात्म्यं तस्यान्तः परा काष्ठा तेन वर्तते तच्छीला-तया स्वस्वभावरूपयोपलक्षित- मित्यर्थः, अन्यथा ह्यस्य परत्वमेव न स्यात्, यदुक्तम् पं० ७ क० पु० गर्भान्तवासिन्या इति पाठः ।

प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः ॥'

श्लोक ३३ ] द्वितीयमाह्निकम् । २७ 'स्वभावमवभासस्य विमर्शं विदुरन्यथा । प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः ॥' इति, अत एव शक्तौ स्वातन्त्र्यात्मनि स्वभाव एव तिष्ठति-सदैव ताद्रूप्येण वर्तत इत्यर्थः, अत एव शक्तिगर्भ-स्वातन्त्र्यशक्तिमन्तरेण नास्यान्याः शक्तयो विद्यन्ते इत्यर्थः, सैव हि तत्तदेषणीयाद्यर्थो- पाधिवशान्नानात्वेन व्यवह्रियत इति भावः, यदुक्तम् 'तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः । बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता ॥' इति, तेन 'स्वतन्त्रो बोधः परमार्थः' इत्याद्युक्तनी- त्यानवच्छिन्नस्वरूपः स्वातन्त्र्यशाल्यविकल्पकः प्र- काश एव परं तत्त्वम्, इति तात्पर्यम् ॥ ३२ ॥ अत एव च नियतव्यवच्छेदासहिष्णुत्वादेतद्विक- ल्प्यतां नैति, इत्याह न भावो नाप्यभावो न द्वयं वाचामगोचरात् । अकथ्यपदवीरूढं शक्तिस्थं शक्तिवर्जितम् ॥ ३३ ॥

२८ श्रीतन्त्रालोकः । अगोचरादिति भावप्रधानो निर्देशः, तेन वाचा- मगोचरत्वादकथ्यपदवीरूढमित्यर्थः । एतच्च सर्वमस- कृत्स्वेनैव व्याख्यातम्, इति न पुनरायस्तम् ॥३३॥ ये चातोऽवहितास्त एव परं कृतकृत्याः, इत्याह इति ये रूढसंवित्ति- परमार्थपवित्रिताः । अनुत्तरपथे रूढा- स्तेऽभ्युपायानियन्त्रिताः ॥ ३४ ॥ इति - उक्तेन गुरूपदेशादिना, रूढा - तदैकात्म्य- लाभादापादितप्ररोहा, या संवित्तिः, तस्या यः पर- मार्थः - सर्वसर्वात्मत्वेन स्फुरणं, तेन पवित्रिताः - भेद- विकारकालुष्यापनयनेन परमाद्वयपात्रतामापादिताः, अत एव ते व्यतिरिक्तेन बाह्येनाभ्यन्तरेण वाभ्युपायेन अनियन्त्रिताः - तन्निरपेक्षाः सन्तः, अनुत्तरपथे - पूर्णानन्दचमत्कारघनतया सर्वातिशायिनि चिद्विका- पं० १२ क० पु० विकारकारककालुष्यापनयेनेति पाठः । पं० १३ क० पु० तेनाभ्यतिरिक्तेनेति पाठः ।

श्लोक ३५ ] द्वितीयमाह्निकम् । २६ सात्मवृत्तिमार्गे विश्रान्ताः - स्वरसावस्थानेनैव लब्ध- तत्सामरस्या इत्यर्थः, तदुक्तम्, 'यथा स्थितस्तथैवास्स्व मा गा बाह्यमथान्तरम् । केवलं चिद्विकासेन विकारनिकराञ्जहि ॥' इति । तथा 'आनन्दशक्तिविश्रान्तो योगी समरसो भवेत् ।' इति । तथा 'उपायो नापरः कश्चित्त्वसत्तावगमादृते । तामेवानुसरन्योगी स्वस्थो यः स सुखी भवेत् ॥' इति ॥३४॥ ततश्च किम् ? इत्याह तेषामिदं समाभाति सर्वतो भावमण्डलम् । पुरःस्थमेव संवित्ति- भैरवाग्निविलापितम् ॥३५॥ तेषाम् - अनुपायसमावेशशालिनां, देहाद्यपेक्षया पुरोऽवभासमानमपि इदं सर्वं भावमण्डलं 'मत्त एवोदितमिदं मय्येव प्रतिबिम्बितम् । मदभिन्नमिदं च ................. ॥' पं० ४ क० पु० केनचिच्चिद्विकासेनेति पाठः । पं० ६ क० पु० योगी स परम इति पाठः ।

३० श्रीतन्त्रालोकः । इत्यादिनीत्या पूर्णसंविन्मयतयैवावभासते इत्यर्थः, यदुक्तम् 'यथा रुमायां पतिताः काष्ठपर्णोपलादयः । लवणत्वाय कल्पन्ते तथा भावाश्चिदात्मनि ॥' इति ॥३५॥ अत एवाह एतेषां सुखदुःखांश- शंकातंकविकल्पनाः । निर्विकल्पपरावेश- मात्रशेषत्वमागताः ॥३६॥ एषां न मन्त्रो न ध्यानं न पूजा नापि कल्पना । न समय्यादिकाचार्य- पर्यन्तः कोऽपि विभ्रमः ॥३७॥ न केवलमेषामविकल्पकावेशमयत्वापत्तेः लौकिक्य एव कल्पनाः न किंचित्, यावदलौकिक्योऽपि, इत्याह 'एषामित्यादि' कल्पना-स्थानादिका ॥ ३६-३७॥ पं० ७ क० पु० सुखदुःखानां शङ्केति पाठः । पं० ९ क० पु० परामर्शमात्रेति पाठः । पं० १३ ग० पु० चर्यापर्यन्त इति पाठान्तरं चास्ति ।

श्लोक ३८ ] द्वितीयमाह्निकम् । ३१ ननु यद्येवं तर्ह्यस्य शेषवृत्तिः कथं स्यात् ? इत्या- शंक्याह समस्तयन्त्रणातन्त्र- त्रोटनाटंकधर्मिणः । नानुग्रहात्परं किंचि- च्छेषवृत्तौ प्रयोजनम् ॥ ३८ ॥ समस्ताः – निखिलाः शास्त्रोक्ता यन्त्रणा – ‘इदं कार्यम् इदं न’ इत्यादयो नियमाः, ता एव तन्यमान- त्वात्तन्त्रं – पटाद्यारम्भकं तन्तुजालं, तस्य त्रोटनायां विच्छेदे, टंकधर्मिणः शस्त्रकल्पस्येत्यर्थः, यथा हि टंक- स्तन्त्रं छिनत्ति, तथायमपि अनुपायसमाविष्टः शास्त्रीया यन्त्रणाः – नहि आरूढस्यास्य ततः कश्चित्संकोच इति भावः, शास्त्रं हि आरुरुक्षूनुपदेश्यान्प्रत्येव निया- मकम्, इति समनन्तरमेवोक्तम्, अत एव चास्य स्वात्मनि कृतकृत्यत्वात्परानुग्रहार्थमेव वर्तनम् इत्याह पं० ८ ख० पु० तन्यमानत्वात्तन्त्रं पटादि, तत्र त्रोटना अवच्छेदस्तदर्थं, टंकवद्दि- दारणाधर्मिणः शस्त्रकल्पस्येत्येवंविधः पाठः ।

३२ श्रीतन्त्रालोकः । 'नानुग्रहांदिति' किंचिदिति - समयपरिपालनादि ॥ ३८ ॥ तदाह स्वं कर्तव्यं किमपि कलयंल्लोक एष प्रयत्ना- न्नो पारार्थ्यं प्रति घटयते कांचन स्वप्रवृत्तिम् । यस्तु ध्वस्ताखिलभवमलो भैरवीभावपूर्णः कृत्यं तस्य स्फुटमिदमियल्लोककर्तव्यमात्रम् ॥ ३६ ॥ एष लोकः संकुचितः प्रमातृवर्गः तावत् ‘............अभिलाषो मलोऽत्र तु ।' इत्यादिनीत्या लौकिकाणवमलयोगादात्मन्यपूर्ण- मन्यतया 'किमपि' इति सामान्येन निर्देशात्सर्वमा- त्मीयं कर्तव्यं, यत्नतः - आकांक्षणीयत्वेन, कलयन् 'तदसिद्धं यदसिद्धेन साध्यते ।' इत्यादिनीत्या यस्य स्वार्थ एव न सिद्धः स कथं परार्थं प्रत्यपि कांचन स्वल्पामपि स्वप्रवृत्तिं घट- यते घटितापि वा तत्प्रवृत्तिर्न किंचित्कुर्यात् इति भावः, यः पुनरनुपायसमाविष्टत्वादेव खिलीकृत- पं० २ ख० पु० पारक्यमिति पाठः ।

श्लोक ३६ ] द्वितीयमाह्निकम् । ३३ निखिलबन्धः, अत एव भैरवीभावेन भगवदद्वयज्ञाना- पत्त्या स्वात्मनि कृतकृत्यत्वेन – आकांक्षणीयस्यैवा- भावात् पूर्णः – अनन्योन्मुखतया स्वात्मन्येव विश्रा- न्तः, तस्येयता निखिलस्य लोकस्य ग्रन्थकर्तव्यमवश्यं कार्यं स्वात्मप्रत्यभिज्ञापनं, तन्मात्रमेवेदं स्फुटम् – अपरिम्लानं कृत्यं – लोकानुग्रह एवास्य कर्तव्य इत्यर्थः, नहि अस्यात्मनि प्राप्तप्राप्तव्यत्वात्किंचित्कर- णीयमस्तीति भावः, यद्गीतं भगवता 'यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ॥' इति । 'न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥' इति च ॥३६॥ द्विविधाश्च परानुग्रहाः–निमलसंविदोऽनिर्मल- संविदश्च, तत्र निर्मलसंविदः प्रति तावन्निरुपकरण- मेवास्यानुग्रहकारित्वम्, इत्याह पं० १ क० पु० ज्ञेयज्ञानापपत्त्या इति पाठः । ५

३४ श्रीतन्त्रालोकः । तं ये पश्यन्ति ताद्रूप्य- क्रमेणामलसंविदः । तेऽपि तद्रूपिणस्ताव- त्येवास्यानुग्रहात्मता ॥४०॥ ये पूर्वाभ्यासादिना निर्मलसंविदः, तीव्रतीव्रश- क्तिपातभाजो वा, तं—समनन्तरोक्तस्वरूपं, ताद्रूप्यक्र- मेण पश्यन्ति 'निरुपायसमावेशभागयम्' इति ज्ञान- पूर्वं साक्षात्कुर्वन्ति, अतस्ते परदर्शनमात्रेणैव तत्सं- वित्संक्रमात् '......दीपाद्दीपमिवोदितम् ।' इति वक्ष्यमाणनीत्या निरुपायसमावेशभाक्त्वेन तत्सदृशा एव भवन्ति इति शेषः, एवंरूपं सिद्धादि- दर्शनं च निरुपायसमावेशे निमित्तम्, इति प्रागेव संवादितम् 'सिद्धानां योगिनीनां च दर्शनम्............ ।' इत्यादि, अत एव तावती दर्शनमात्ररूपैवास्य अनुग्रहात्मता, न तु वक्ष्यमाणोपायादिसव्यपेक्षा, इत्यर्थः ॥ ४० ॥

श्लोक ४१ ] द्वितीयमाह्निकम् । ३५ ननु सर्वत्र दीक्षायाः ‘.........मुक्तिश्च शिवदीक्षया ।’ इत्याद्युक्त्या मुक्तावुपायत्वमुक्तम्, इति कथमत्र दीक्षां विनापि दर्शनमात्रादेव तदवाप्तिरुक्ता ? इत्याशंक्याह एतत्तत्वपरिज्ञानं मुख्यं यागादि कथ्यते । दीक्षान्तं विभुना श्रीम- त्सिद्धयोगीश्वरीमते ॥४१॥ एतस्य समनन्तरोक्तस्य निरुपायात्मनस्तत्त्वस्य परिज्ञानमेव मुख्यया वृत्त्या ‘यागहोमादि’ श्रीसिद्ध- योगीश्वरीमतादौ - सर्वत्रैवागमे ‘विभुना’ कथ्यते इति संबन्धः, अत एव च बाह्यं यागादि गौणम् - इत्यर्थसिद्धम्, अन्यथा ह्यस्य मुख्यत्वमेव न स्यात्, यदभिप्रायेणैव चर्याक्रमेऽप्येतन्निषिद्धम्, यदुक्तम् ‘नास्य मण्डलकुण्डादि किंचिदप्युपयुज्यते । न च न्यासादिकं पूर्वं स्नानादि च यथेच्छया ॥’ इति ॥ ४१ ॥ तदेव पठति पं० १४ क० पु० चर्यास्थण्डिलाद्यपि निषिद्धमिति पाठः ।

३६ श्रीतन्त्रालोकः । स्थण्डिलादुत्तरं तूरं तूरादुत्तरतः पटः । पटाद्ध्यानं ततो ध्येयं ततः स्याद्धारणोत्तरा ॥४२॥ ततोऽपि योगजं रूपं ततोऽपि ज्ञानमुत्तरम् । ज्ञानेन हि महासिद्धो भवेद्योगीश्वरस्त्विति ॥४३॥ स्थण्डिलं - यागार्थं गृहीतो भूप्रदेशः, तूरं - पात्रादावुत्कीर्णं आकारविशेषः। ज्ञानस्य सर्वोत्कृष्टत्वे हेतुमाह ‘ज्ञानेन’ इति, ज्ञानेन हि योगिनामपीश्वरः स्यादित्यर्थः, अत एव तदुपोद्वलनार्थं महच्छब्देश्वर- शब्दयोरपि प्रयोगः ॥४२-४३॥ अनिर्मलसंविदः प्रति पुनरस्य सोपकरणमेव अनुग्रहकारित्वम्, इत्याह सोऽपि स्वातन्त्र्यधाम्ना चे- दप्यनिर्मलसंविदाम् ।

श्लोक ४६] द्वितीयमाह्निकम् । ३७ अनुग्रहं चिकीर्षुस्त- द्भाविनं विधिमाश्रयेत् ॥४४॥ स्वातन्त्र्यधाम्ना, न पुनः शास्त्रीययन्त्रणया - तत्त्रो- टनायाः समनन्तरमेवोक्तत्वात् ॥४४॥ भावी च विधिः कीदृक् ? इत्याह अनुग्राह्यानुसारेण विचित्रः स च कथ्यते । परापराद्युपायौघ- संकीर्णत्वविभेदतः ॥४५॥ 'परापर' इत्येकशेषः, तेन - परः शाम्भवः, अपरः आणवः, परापरः शाक्तः, संकीर्णत्वमुपायान्तर- साहित्यात् ॥४५॥ न केवलमस्य परानुग्रहार्थं भाविविध्याश्रयण- मुपयुक्तं, यावत्तदभिधायकं शास्त्राद्यपि, इत्याह तदर्थमेव चास्यापि परमेश्वररूपिणः । पं० ३ क० पु० यन्त्रणायाः तत्त्रोटनस्येति पाठः ।

३८ श्रीतन्त्रालोकः । तदभ्युपायशास्त्रादि- श्रवणाध्ययनादरः ॥४६॥ न केवलमारुरुक्षूणामेव शास्त्रमुपादेयं यावदस्या- पि, इति अपिशब्दार्थः, यदुक्तम् 'शंकाशून्योऽपि तत्त्वज्ञो मुमुक्षुप्रक्रियां प्रति । न त्यजेच्छास्त्रमर्यादामित्याज्ञा पारमेश्वरी ॥' इति ॥४६॥ नन्वेवमुपायमुखप्रेक्षित्वादस्य स्वातन्त्र्यहानिः स्यात्? इत्याशंक्याह नहि तस्य स्वतन्त्रस्य कापि कुत्रापि खण्डना । नानिर्मलचितः पुंसो- ऽनुग्रहस्त्वनुपायकः ॥४७॥ नहि अस्य आरुरुक्षुवदात्मन्युपायापेक्षा येन स्वात- न्त्र्यखण्डना स्यात्, किं तु स्वात्मनि कृतकृत्यत्वा- त्परार्थमस्य तत्स्वीकारः, यतः परेषामनिर्मलचित्त्वा- दुपायमन्तरेण न अनुग्रहः सेत्स्यति, इति-भावि- विध्याश्रयणाद्यप्युक्तम् , यद्गीतं

श्लोक ४८] द्वितीयमाह्निकम्। ३६ 'सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत। कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥' इति ॥४७॥ न चैतत्स्वोपज्ञमेवास्माभिरुक्तम्, अपि तु भगवता, पूर्वाचार्यैश्च सर्वत्रैवोक्तम्, इति - निखिलस्य आह्नि- कार्थस्याविगीततां दर्शयितुमाह श्रीमदूर्भिमहाशास्त्रे सिद्धसंतानरूपके । इदमुक्तं तथा श्रीम- त्सोमानन्दादिदैशिकैः ॥४८॥ ऊर्मिमहाशास्त्र इति - श्रीमदूर्भिकौलसिद्धसंता- नरूपके, इत्यनेन पादोवह्यां पारम्पर्येऽप्यम्लानत्वं दर्शितम्, तत्र हि 'शून्यं न किंचित्तच्छून्यं त्वशून्यं शून्यता नहि। यत्किंचित्कथं तद्धि न किंचिच्छेत्तुमर्हति ॥' इति भगवत्या पृष्टो भगवान् 'आत्मा शून्य इह ज्ञेयः शिवधर्म्मैर्विनाकृतः । शिवः शून्योऽधिगन्तव्यो विमलोऽमूर्तविग्रहः ॥' इत्याद्युपक्रम्य