तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 344, कुल 368 में से
संदर्भ में पढ़ें२२ श्रीतन्त्रालोकः । स्थानं-स्थापनमुद्रया भगवतोऽवस्थानम्, आसनं- संनिधानमुद्रया पूजां प्रति औन्मुख्यं, निरोधः-तत्रै- वाविचलत्त्वेनावस्थानम्, अर्घोऽष्टाङ्गः, संधानं मन्त्रा- दिविषयम्, आवाहनं-अनभिमुखस्याभिमुखीकरणं, विसर्जनम् - अभिमुखीभूतस्यानभिमुखीकरणम्, एषामावाहनादिविसर्जनान्तानामसत्त्वे हेतुगर्भं विशे- षणं - 'कर्तृ इत्यादि' कर्त्रादीनां हि विकल्पैकपरमार्थ- त्वात्, प्रकाशस्य च परप्रमात्रेकात्मकत्वेनाविकल्प्य- त्वात् न केनचिदपि व्यपदेशेन व्यपदेष्टुं शक्यते, इति 'नैष शक्तिः' इत्यायुक्तम् ॥२७॥ न चैतद्युक्तिमात्रशरणम्, अपि त्वागमेनापि सिद्धम्, इति श्रीभर्गशिखां संवादयति । न सन्न चासत्सदस- न्न च तन्नोभयोज्झितम् । दुर्विज्ञेया हि सावस्था किमप्येतदनुत्तरम् ॥२८॥ पं० २ ख० पु० पूज्यं प्रति इति पाठः । पं० ७ ख० पु० कर्त्रादयो हि इति पाठः, तदनुसारेण शक्यन्ते इति च समु- चितः प्रतिभाति ।