तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 35, कुल 368 में से
संदर्भ में पढ़ेंश्लो० ७ ] प्रथममाह्निकम् । २५ रागारुणां ग्रन्थिबिलावकीर्णां यो जालमातानवितानवृत्ति । कलोम्भितं बाह्यपथे चकार स्तान्मे स मच्छन्दविभुः प्रसन्नः ॥ ७ ॥ ‘स’ सकलकुलशास्त्रावतारकतया प्रसिद्धः ‘मच्छाः पाशाः समाख्याताश्चपलाश्चित्तवृत्तयः । छेदितास्तु यदा तेन मच्छन्दस्तेन कीर्तितः ॥’ इत्याद्युक्त्या पाशखण्डनस्वभावो मच्छन्द एव परमे- श्वरसमावेशशालित्वात् ‘विभुः’ मम प्रसन्नः ‘स्तात्’ स्वात्मदर्शनसंविभागपात्रतामाविष्कुर्यात् इत्यर्थः । यो ‘जालं’ मत्स्यबन्धनम्, इन्द्रजालप्रायां च मायां ‘बाह्यपथे चकार’ ‘अष्टौ सिद्धा महात्मानो जालपृष्ठाः सुतेजसः ।’ इत्याद्युक्त्या तुरीयतास्वरूपावहितत्वेन संकोचा- पहस्तनादनवधेयतां च निन्ये इत्यर्थः । तच्च ‘रागेण’ गैरिकादिद्रव्येण रागतत्त्वेन च ‘अरुणां’ लोहिती- पं० ११ क० पु० इन्द्रियजालप्रायामिति पाठः । पं० १४ ख० पु० इत्याद्युक्तोत्तरीयतेति पाठः । पं० १५ ख० पु० हस्तनादवधेयतामिति च पाठः । ४