तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 36, कुल 368 में से
संदर्भ में पढ़ें२६ श्रीतन्त्रालोकः । कृतम् इयर्ति गच्छति इत्यर्थानुगमात् तत्तद्भेददशाप्र- सररूपं च, तथा 'ग्रन्थिभिः' बन्धनैः 'बिलैः' च सलि- लनिर्गमनस्थानैः 'ग्रन्थौ' मायाया द्वितीयस्मिन् भेदे 'बिलैः' बिलाकाराभिः भगसंज्ञाभिर्भोगभूमिभिश्च 'अवकीर्णं' व्याप्तम्, तथा 'आतानवितानवृत्ति' आ- यामपार्श्वमानयुक्तं विश्वाकारत्वात् सर्वतः प्रसरद्रूपं च, तथा 'कलया' विच्छित्तिविशेषेण कलातत्त्वेन च अर्थात्क्षितिपर्यन्तेन 'उम्भितम्' आरब्धम्। यदुक्तम् 'मायारूपं भवेज्जालं धारयेत्कुलचिन्तकः । विश्वाकारं महाजालं नाडीसूत्रनियोजितम् ॥ भुवनाक्षसमोपेतं तत्त्वग्रन्थिदृढीकतम् । कलारागयुतं चैव.................................॥' इत्यादि ॥ ७ ॥ 'श्रीमच्छ्रीकण्ठनाथाज्ञावशात्सिद्धा अवातरन् । त्र्यम्बकामर्दकाभिख्यश्रीनाथा अद्वये द्वये ॥ द्वयाद्वये च निपुणाः क्रमेण शिवशासने । आद्यस्य चान्वयो जज्ञे द्वितीयो दुहितृक्रमात् ॥ स चार्धत्र्यम्बकाभिख्यः सन्तानः सुप्रतिष्ठितः । अतश्चार्धचतस्रोऽत्र मठिकाः सन्ततिक्रमात् ॥' पं० ३ क० पु० धारयेत्कुलेति पाठः ।