तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 37, कुल 368 में से
संदर्भ में पढ़ेंश्लो० ८ ] प्रथममाह्निकम्। २७ इति वक्ष्यमाणस्थित्या श्रीसन्तत्यामईकत्रैयम्बका- र्धत्रैयम्बकाख्यासु सार्धासु तिसृषु मठिकासु मध्यात् वक्ष्यमाणतन्त्रप्रक्रियायाः त्रैयम्बकमठिकाश्रयेण आयातिक्रमोऽस्ति इति सामान्येन तावत् गुरून्- भिमुखयति त्रैयम्बकाभिहितसन्ततिताम्रपर्णी- सन्मौक्तिकप्रकरकान्तिविशेषभाजः । पूर्वे जयन्ति गुरवो गुरुशास्त्रसिन्धु- कल्लोलकेलिकलनामलकर्णधाराः ॥८॥ 'त्रैयम्बक' इति 'अभिहिता' 'सन्ततिः' मठिका इत्यर्थः ॥ ८ ॥ एवं 'शैवादीनि रहस्यानि पूर्वमासन्महात्मनाम् । ऋषीणां वक्त्रकुहरे तेष्वेवानुग्रहक्रिया ॥ कलौ प्रवृत्ते यातेषु तेषु दुर्गमगोचरम् । कलापिग्रामप्रमुखमुच्छिन्ने शिवशासने ॥
- ० १ क० पु० इत्यादिवक्ष्यमाणेति पाठः ।
- ० ३ ख० पु० मठिकाश्रयेणायातिक्रमोऽस्तीति पाठः ।