तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 41, कुल 368 में से
संदर्भ में पढ़ेंश्लो० १३ ] प्रथममाह्निकम्। ३१ इदानीम् ‘उपाध्यायाद्दशाचार्य आचार्याणां शतं पिता।’ इत्याद्युक्त्या तस्याचार्यादपि गौरवातिरेकस्मृते- र्निजमपि पितरमाशीर्वादमुखेन परामृशति यः पूर्णानन्दविश्रान्तसर्वशास्त्रार्थपारगः। स श्रीचुखुलको दिश्यादिष्टं मे गुरुरुत्तमः १२॥ ‘चुखुलक’ इति लोकप्रसिद्धमस्य नामान्तरम्। ‘गुरुत्तम’ इति उत्तमत्वस्य आचार्यगौरवातिरेक- स्मृतिरेव निमित्तम्, अत एव अन्यत्रापि ‘गुरुभ्योऽपि गरीयांसं जनकं चुखुलाभिधम्।’ इत्याद्युक्तम्॥ १२॥ एवं च तन्त्रप्रक्रियोपासन्नगुर्वभिमुखीकरणानन्तरं विश्रान्तिस्थानतया कुलप्रक्रियागुरुमपि उत्कर्षयति जयताज्जगदुद्धृतिक्षमोऽसौ भगवत्या सह शंभुनाथ एकः। यदुदीरितशासनांशुभिर्मे प्रकटोऽयं गहनोऽपि शास्त्रमार्गः॥ १३॥ पं० २ उपाध्यायादिति पद्यस्य 'सहस्रं तु पितुर्माता गौरवेणातिरिच्यते।' इति उत्तरार्धं ग० पु० अधिकं वर्तते।