तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 42, कुल 368 में से
संदर्भ में पढ़ें३२ श्रीतन्त्रालोकः । भगवत्याख्या अस्य दूती, कुलप्रक्रियायां हि दूती- मन्तरेण क्वचिदपि कर्मणि नाधिकारः इत्यतस्त- त्सहभावोपनिबन्धः । ‘योक्ता संवत्सरात्सिद्धिरीह पुंसां भयात्मनाम् । सा सिद्धिस्तत्त्वनिष्ठानां स्त्रीणां द्वादशभिर्दिनैः ॥ अतः सुरूपां सुभगां सरूपां भाविताशयाम् । आदाय योषितं कुर्यादर्चनं यजनं हुतम् ॥’ इति । ‘शास्त्रमार्गो’ विमलो जातः इत्यनेनास्य त्रिकाद्यागमव्याख्यातृत्वमपि प्रकाशितम् । यदुक्त- मनेनैव ‘इत्यागमं सकलशास्त्रमहानिधाना- च्छ्रीशंभुनाथवदनादधिगम्य सम्यक् । शास्त्रे रहस्यरससंततिसुन्दरेऽस्मिन् गम्भीरवाचि रचिता विवृतिर्मयैयम् ॥’ इति ॥ १३ ॥ इदानीं स्वप्रवृत्तिप्रयोजनादि आचक्षाणो ग्रन्थ- कारो ग्रन्थकरणं प्रतिजानीते पं० ६ ख० पु० सुरूपां भाविताशयामिति पाठः