तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 43, कुल 368 में से
संदर्भ में पढ़ेंश्लो० १६ ] प्रथमाह्निकम् । ३३ सन्ति पद्धतयश्चित्राः स्रोतोभेदेषु भूयसा । अनुत्तरषडर्धार्थक्रमे त्वेकापि नेक्ष्यते ॥ १४ ॥ न चात्र अन्यथा संभाव्यम् – इत्यात्मन्याप्तत्वं प्रख्यापयन्नेवं प्रतिज्ञाकरणे सामर्थ्यं दर्शयति इत्यहं बहुशः सद्भिः शिष्यसब्रह्मचारिभिः । अर्थितो रचये स्पष्टां पूर्णार्थां प्रक्रियामिमाम् १५ श्रीभट्टनाथचरणाब्जयुगात्तथा श्री- भट्टारिकांघ्रियुगलाद्गुरुसन्ततिर्या । बोधान्यपाशविषनुत्तदुपासनोत्थ- बोधोज्ज्वलोऽभिनवगुप्त इदं करोति ॥ १६ ॥ तस्य गुरुपरम्परागतस्य ज्ञानस्य 'उपासनं' पुनः पुनः चेतसि विनिवेशनं तत उत्थितो योऽसावुप- देष्टव्यविषयो 'बोधः' साक्षात्कारस्तेन 'उज्ज्वलः' सम्यगवगतधर्मा सन् 'इदं' गुरूपदेशात्संशयविपर्या- सादिरहितत्वेनाधिगतमनुत्तरत्रिकार्थप्रक्रियालक्षणं पं० ३ क० ख० पु० न चान्यथेति पाठः । पं० ५ क० पु० 'इत्यहं' इति पद्यं नास्त्येव । ख० पु० इत्यलं बहुश इति पाठः । पं० १५ क० पु० त्रिकार्थं प्रक्रियाजच्चयगलितमिति पाठः । ५