तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 48, कुल 368 में से
संदर्भ में पढ़ें३८ श्रीतन्त्रालोकः । वामौ, ईशाघोरौ, अघोर-वामौ - इति द्व्यात्मकं भेदत्रयमेव अवशिष्यत - इति त्रयो द्विकभेदाः । तथा पञ्चानामपि ईश-तत्पुरुषाजातवामाघोराणां त्र्यात्मकत्वेन संमीलनायामीशानस्य क्रमेण इतर- वक्त्रसंभेदे षट्, तत्पुरुषस्य त्रयः, तथा सद्योजातस्य तदवशिष्टवक्त्रसंभेदेऽपि एक एव - इति दशविधत्वे- ऽपि ईश-तत्पुरुष-सद्योजातात्मनः प्रथमत्रिकस्य शिवभेदेषु उक्तत्वात् ईश-वामाघोरात्मनः शिष्टस्य त्रिकस्य व्यापारान्तरेण नियोक्ष्यमाणत्वाच्च त्र्यात्मक- भेदाष्टकमेवावशिष्यते - इत्यष्टावेव त्रिकभेदाः । अत एव एकककथनं चिन्त्यमिति न वाच्यम्,- तत्पुरुषाजात-वामाघोराणां हि द्व्यात्मकतया चतुरा- त्मकतया वा ज्ञानजनने संयोगनिषेधो विवक्षितः, त्र्यात्मकतायामपि तथाभावे हि बहूनां भेदानां निषेधः प्रसज्यते - इति भेदसप्तककथनमपि न्याय्यं पं० १ क० पु० द्व्यात्मकभेदत्रयमिति समस्तः पाठः । पं० ७ ख० पु० जातात्मान इति पाठः । पं० ८ ख० पु० घोरात्मान इति पाठः । पं० ११ क० पु० अत एव एकैककथनमिति पाठः ।