भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 49, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 49

श्लो० १८ ] प्रथमाह्निकम् । ३९ न स्यात् – इत्यलं बहुना । तथा पञ्चानामप्येषां चतुरात्मकत्वेन संमीलनायां पञ्चविधत्वेऽपि नराजाता- वामाघोराणामुक्तयुक्त्या संगत्यभावाच्चत्वारश्चतु- र्भेदाः, सर्वेषामप्येषां संमीलनायां पञ्चकभेद एक एव – इत्येवम् ‘अष्टादश’ भेदाभेदप्रधाना रुद्रभेदाः । तदुक्तं ‘यदा त्रयाणां वक्त्राणां वामदक्षिणसंगतिः । तदा सप्त द्विकभेदा अष्टौ चैव त्रिकात्मकाः ॥ चतुष्काश्चापि चत्वारः पञ्चकस्त्वेकरूपकः । इति विंशतिमध्यात्तु नराजातावसंगतिम् ॥ वामाघोरद्वये यातः स्वातन्त्र्यात्पूर्वपश्चिमौ । ज्ञानं भजेते नैवेति भेदषोडशकं स्थितम् ॥ तत्रापि वामदेवीयमेकं तदुपरि स्थितम् । स्वरूपं भैरवीयं च तेनाष्टादशधा स्थितिः ॥ रुद्रभेदस्य शास्त्रेषु शिवेनैवं निरूपिता ।’ इति । एतच्च श्रीश्रीकण्ठ्यामभिधानपूर्वं विस्त- रत उक्तं, तद्यथा पं० ८ क० पु० सप्तद्विका भेदा इति पाठः । पं० १० ख० पु० विंशकमध्यान्तर इति पाठः । पं० १७ क० पु० उक्तमित्यनन्तरं ‘तद्यथा’ इति वाक्यं नास्ति ।