भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 53, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 53

श्लो० १८ ] प्रथमाह्निकम् । ४३ चन्द्राख्या चैव षष्ठी तु मङ्गला सर्वमङ्गला । एष मङ्गलभेदोऽयं क्रोधेशेन तु भाषितः ॥ प्रथमं मन्त्रचक्रं तु वर्णचक्रं द्वितीयकम् । तृतीयं शक्तिचक्रं तु कलाचक्रं चतुर्थकम् ॥ पञ्चमं बिन्दुचक्रं तु षष्ठं वै नादसंज्ञकम् । सप्तमं गुह्यचक्रं च खचक्रं चाष्टमं स्मृतम् ॥ एष वै चक्रभेदोऽयमसिताङ्गेन भाषितः । अन्धकं रुरुभेदं च अजाख्यं मूलसंज्ञकम् ॥ वर्णभण्ठं विडङ्गं च ज्वालिनं मातृरोदनम् । कीर्त्तिताः परमेशेन रुरुणा परमेश्वरि ॥ भैरवी चित्रिका चैव हंसाख्या च कदम्बिका । हृल्लेखा चन्द्रलेखा च विद्युल्लेखा च विद्युमान् ॥ एते वागीशभेदास्तु कपालीशेन भाषिताः । भैरवी तु शिखा प्रोक्ता वीणा चैव द्वितीयिका ॥ वीणामखिस्तृतीया तु संमोहं तु चतुर्थकम् । पञ्चमं डामरं नाम षष्ठं चैवाप्यथर्वकम् ॥ कबन्धं सप्तमं ख्यातं शिरश्छेदोऽष्टमः स्मृतः । एते देवि शिखाभेदा उन्मत्तेन च भाषिताः ॥ एतत्सादशिवं चक्रमष्टाष्टकविभेदतः ॥' पं० ८ क० पु० अजाद्यमिति पाठः । पं० ९ ख० पु० वर्णामठम् इति पाठः । पं० १६ क० पु० प्यवर्धकम् इति पाठः ।