तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 54, कुल 368 में से
संदर्भ में पढ़ें४४ श्रीतन्त्रालोकः । इति । तैर्भिन्नं भेदोपभेदवैचित्र्यात्मना नानाप्रकार- मित्यर्थः । यत्तु श्रीश्रीकण्ठ्यां तत्पुरुषवक्त्रमुद्दिश्य 'अष्टाविंशतिभेदैस्तु गारुडं हृदयं पुरा ।' इत्यादि । तथा 'पश्चिमे भूततन्त्राणि....................।' तथा 'दक्षिणे दक्षिणो मार्गश्चतुर्विंशतिभेदतः ।' इत्यादि । तथा 'वामदेवात्तु यज्जातमन्यत्तत्साम्प्र [म्प्र]तं शृणु ।' इत्यादि अन्यभेदोपभेदवैचित्र्यमुक्तं, तदेकैकस्य वक्त्रस्य पञ्चवक्त्रात्मकत्वात् एतद्भेदजातोपभेदा- त्मकमेव — इति तत एव संगृहीतम् इति न पृथगिह आयस्तम् । तदुक्तं 'एकैकं पञ्चवक्त्रं च वक्त्रं यस्मात्प्रगीयते । दशाष्टादशभेदस्य ततो भेदेष्वसंख्यता ॥' पं० १ क० पु० भेदोपभेदनानावैचित्र्येत्यादिपाठः । पं० १० क० पु० एकैकवक्त्रस्येति समस्तः पाठः । पं० १२ क० पु० पृथगिह नायस्तमित्येवंविधः पाठः ।