भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 55, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 55

श्लो० १८ ] प्रथमाह्निकम् । ४५ इति । अतश्च भेद-भेदाभेदाभेदप्रतिपादकं शिवरु- द्रभैरवाख्यं त्रिधैवेदं शास्त्रमुद्भूतम् इति सिद्धान्तः । तदुक्तं 'तन्त्रं जज्ञे रुद्रशिवभैरवाख्यमिदं त्रिधा । वस्तुतो हि त्रिधैवेयं ज्ञानसत्ता विजृम्भते ॥ भेदेन भेदाभेदेन तथैवाभेदभागिना ।' इति । एवं च भेदाद्यात्मकमपीदं शास्त्रं परमेश्वरेश- वामाघोरात्मकं षष्ठं त्रिकं परादिदेवीत्रयविश्रान्ति- धामतया क्रोडीकृत्य, 'पुष्पे गन्धस्तिले तैलं देहे जीवो जले रसः । यथा तथैव शास्त्राणां कुलमन्तःप्रतिष्ठितम् ॥' इत्याद्युक्त्या परमाद्वयामृतपरिप्लावितं विदध्यात्, अन्यथा ह्यस्य परपदप्राप्तिनिमित्तत्वं न स्यात् । तदुक्तं


पं० ७ ख० पु० द्वयात्मकमप्येतदिति पाठः । पं० ८ ख० पु० षष्ठत्रिकमिति समस्तः पाठः । पं० १० क० पु० जलेऽमृतम् इति, ख० पु० जले घृतमिति पाठः । पं० १२ क० पु० परिप्लुतमिति पाठः । अन्यथा हत्यतो न स्यादित्यन्तः वाक्यपाठः क० ग० पुस्तकेयोर्नास्ति ।