तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 56, कुल 368 में से
संदर्भ में पढ़ें४६ श्रीतन्त्रालोकः । ‘ततोऽपि संहृताशेषभावोपाधिसुनिर्भरः । भैरवः परमार्थौघद्रुवबृंहितशक्तिकः ॥ ईशान-वाम-दक्षासु तासु शक्तित्रयं क्रमात् । अपरादिपराप्रान्तं क्रोडीकृत्य त्रिकं स्थितः ॥ ऊर्ध्ववामतदन्यानि तन्त्राणि च कुलानि च । तद्द्वाराप्रान्तरूढानि प्रापय्याभेदभूमिकाम् ॥’ इति। ननु एवंविधा श्रुतिर्न काचिदुपलभ्यत इति किं प्रमाणम् । ननु अत्र उक्तमेवानेन गुरुपारम्पर्यलक्षणं प्रमाणम् । यदाह ‘इत्थं मध्ये विभिन्नं तत्त्रिकमेव तथा तथा । शास्त्रमस्मद्गुरुगृहे संप्रदायक्रमात्स्थितम् ॥’ इति । ननु यदेवात्र पुंबुद्धिप्रभवत्वं चोद्यं तदेवो- त्तरीकृतम् — इत्यपूर्वमिदं पाण्डित्यं, तेनागमः कश्चन संवादनीयो येनैतत्समाहितं स्यात्, नैतत् अविगीतैव हि प्रसिद्धिरागमः इत्युच्यते, यदुक्तं पं० १ ख० पु० भावोपाधिषु निर्भर इति पाठः । पं० २ ख० पु० परमार्थौद्यध्रुवेति पाठः । पं० ४ क० पु० पराक्रान्तमिति पाठः । पं० ६ क० पु० उद्धारप्रान्तेति, क० पु० भेदभूमिकाः इति च पाठः । पं० ८ ग० पु० न तूक्तमेवात्रानेनेति पाठः । पं० १२ क० पु० चोद्यं तत्कृतमितीति पाठः । पं० १४ क० पु० सामाहित्यं स्यादिति पाठः ।