तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 65, कुल 368 में से
संदर्भ में पढ़ेंश्लोकः २३ ] प्रथमाह्निकम् । ५५ 'अज्ञानं' तिमिरं पारमेश्वरस्वातन्त्र्यमात्रसमुल्ला- सितस्वरूपगोपनासतत्त्वमात्मानात्मनोरन्यथाभिमा- नस्वभावम् अपूर्णं ज्ञानं, तदेव चाणवं 'मलं', न तु नवमाह्निकादौ निषेत्स्यमानं द्रव्यरूपम् । उक्तं च 'स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता । द्विधाणवं मलमिदं स्वस्वरूपापहानितः ॥' इति । तच्च कीदृक् ? इत्याह—संसार इति । 'संसारस्य' 'भिन्नवेद्यप्रथात्रैव मायाख्यम्............।' इत्याद्युक्तस्वरूपस्य मायीयस्य मलस्य 'संसारकारणं कर्म संसाराङ्कुर उच्यते ।' इति वक्ष्यमाणनीत्या 'अङ्कुरः' कारणं कार्ममलं तस्य 'कारणं' । तदुक्तं 'मलं कर्मनिमित्तं तु नैमित्तिकमतः परम् ।' इति श्रीमालिनीविजयोत्तरे प्रोक्तम् इत्येतदधि- कारेणैवायं ग्रन्थः प्रवृत्त इत्युपोद्बलितम् ॥२३॥ अज्ञानस्य पौरुषबौद्धात्मकत्वेन द्वैविध्येऽपि इह पौरुषमेव विवक्षितं स्यान्नान्यत् इत्याह पं० १ ख० पु० अज्ञानतिमिरमिति समस्तः पाठः । क० पु० समुल्लासितं स्वरूपेति च व्यस्तः पाठः ।