तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 73, कुल 368 में से
संदर्भ में पढ़ेंश्लोकः ३२ ] प्रथमाह्निकम् । ६३ एवमप्यस्य तद्वैलक्षण्यं कटाक्षीकर्तुं दर्शनान्तरो- क्तस्य मोक्षस्य स्वरूपमभिधातुमुपक्रमते यत्तु ज्ञेयसतत्त्वस्य पूर्णापूर्णाप्रथात्मकम् । तदुत्तरोत्तरं ज्ञानं तत्तत्संसारशान्तिदम् ॥ ३२ ॥ ‘यत्’ पुनः ‘ज्ञेयस्य’ कला-तत्त्व-भुवनाद्यात्मनोऽध्वनः यत् ‘सतत्त्वम्’ ऊर्ध्वोर्ध्वमन्योन्यं च भेदेनावस्थानं, तस्य ‘उत्तरोत्तरम्’ उपर्युपरिभावेन तत्तद्भुवनाद्युल्ल- ङ्घनक्रमेण तत्तदवच्छेदापगमात् यथायथमतिश- याद् द्वैतप्रथात्मकत्वात् संकुचितत्वेऽपि ‘पूर्णा- पूर्णाप्रथात्मकं ज्ञानम्’ [ उदेति तदधरीकृततत्त्वजालो- ल्लङ्घनात् ‘चतुर्दशविधं६ यच्च प्रोक्तं संसारमण्डलम् ।’ इत्याद्युक्तेः ‘तस्य तस्य’ चतुर्दशविधयोन्यात्मनः ‘संसारस्य’ ‘शान्तिदं’ तत उन्मोचकमित्यर्थः । ६ चतुर्दशविधत्वं संसारस्योक्तं यथा— ‘अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति । मानुष्यश्चैकविधः समासतो भौतिकः सर्गः ॥’ इति ।