तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 72, कुल 368 में से
संदर्भ में पढ़ें६२ श्रीतन्त्रालोकः । नन्वेवं मोक्षस्य लक्षणमभिधीयताम् इत्याशङ्- क्याह स्वतन्त्रात्मातिरिक्तस्तु तुच्छोऽ तुच्छोऽपि कश्चन । न मोक्षो नाम तन्नास्य पृथङ्नामापि गृह्यते ॥ ३१ ॥ न कश्चिदन्योऽस्ति इति वाक्यशेषः । यदि तुच्छ- स्तत्पूर्वोक्तनीत्या बन्ध एव स्यात्, अतुच्छश्चेत् पार- मार्थिकत्वान्नास्य स्वतन्त्रात्मातिरेकः । यद्वक्ष्यति ‘मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः । स्वरूपं चात्मनः संवित् .................... ॥’ इत्यादि । किमुक्तं भवति, - इह तावदात्मज्ञानं मोक्ष इत्यविवादः, अतो यदेवात्मनो लक्षणं तदेव मोक्षस्य इति तन्नान्तरीयकत्वादेव अस्य लक्षणसिद्धेः पृथक्लक्षणं न कृतं, अत एव ‘नामापि’ इति अपि- शब्देन लक्षणादेः पुनः का वार्ता इत्यावेदितम् ॥३१॥ पं० ७ ख० पु० यतो यदि तुच्छ इति पाठः ।