तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 71, कुल 368 में से
संदर्भ में पढ़ेंश्लोकः ३० ] प्रथमाह्निकम् । ६१ कर्मणोः कर्तृकर्मक्रियाणां च भिन्नानामवच्छेदका- नामाग्रूरणाद् द्वैतप्रथासूत्रणं क्रियते, पूर्णमस्य रूपं नाख्याति इत्यर्थः । 'तत्' तस्मात्संविद्वैतात्मनः पूर्णस्य रूपस्य अख्यानात् 'द्वैतप्रथा' एव 'अज्ञानम्' अपूर्णं ज्ञानमपूर्णत्वाच्च तदेव अपूर्णं मन्यता-शुभा- शुभवासना-शरीरभुवनाकारस्वभावविविधसंकुचित- ज्ञानरूपतया मलत्रयात्मा 'बन्ध' इति उच्यते, बन्धरूपत्वादेव च तदज्ञानं 'समुच्छेद्यम्' 'मलं कर्म च मायीयमाणवमखिलं च यत् । सर्वं हेयमिति प्रोक्तं ........................ ॥' इत्युक्त्या हेयमित्यर्थः । नन्वत्र द्वैतप्रथात्मकत्वा- दपूर्णं ज्ञानमेव अज्ञानम् इत्येतत्कुतोऽवगतम् इत्याशङ्क्योक्तम् 'इत्यावृत्त्या निरूपितम्' इति । 'आवृत्त्या' इति अज्ञानम् इति संहितापाततः पुनरा- वर्तनेन इत्यर्थः ॥ २८ ॥ २९ ॥ ३० ॥ पं० ६ क० पु० भुवनाकारविविधेति पाठः । पं० ७ क० पु० बन्ध इत्युच्यते इति पाठः । पं० ११ ख० पु० इत्याद्युक्त्या इति पाठः ।