तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 70, कुल 368 में से
संदर्भ में पढ़ें६० श्रीतन्त्रालोकः । वत्त्वं, तदेव च परमैश्वर्यस्वभावं स्वातन्त्र्यमुच्यते । तदाह 'स्वातन्त्र्यमात्रकम्' इति । स्वातन्त्र्यमेव के- वलं स्वातन्त्र्यमात्रकम्, अत एवाह 'अनाक्षितवि- शेषम्' इति, 'अनाक्षिताः' स्वसहचारिणोऽपि नित्यत्वव्यापकत्वादयो 'विशेषा' भेदा येन तत् । भावप्रत्ययान्तो हि शब्दः सहचारिधर्मान्तरनिवृत्ति- मेव ब्रूते, अत एव द्रव्याभिधायिनः शब्दस्य विशेषः । यदाहुः 'धर्मान्तरप्रतिक्षेपाप्रतिक्षेपौ तयोर्द्वयोः । संकेतभेदस्य पदं ज्ञातृवाञ्छानुरोधतः ॥ भेदोऽयमेव सर्वत्र द्रव्यभावाभिधायिनोः ।' इति । 'द्वितीयेन' इति अर्थात् द्वितीयसूत्रवर्तिना ज्ञानशब्देन, ज्ञप्तिः ज्ञानं, ज्ञायते येन इति ज्ञानं च इति व्युत्पत्त्या 'क्रियां, करणं' च प्राधान्येनाभि- दधता 'तस्य'-चैतन्यमात्मा-इत्युक्तस्वरूपस्य, अत एव चेतयते इति 'चित्' चितिक्रियायां कर्ता, तन्मा- त्रमेव केवलं 'रूपं' यस्य तस्य 'द्वैतमुच्यते' कर्तृ- पं० ७ क० पु० अत एवेत्याभिधायिनः शब्दस्येति पाठः । पं० १० क० पु० भेदस्य परमित्येवंविधः पाठः ।