तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 69, कुल 368 में से
संदर्भ में पढ़ेंश्लोकः ३० ] ( प्रथमाह्निकम् । ५९ चैतन्यमात्मा ज्ञानं च बन्ध इत्यत्र सूत्रयोः । संश्लेषेतरयोगाभ्यामयमर्थः प्रदर्शितः ॥ २७ ॥ 'संश्लेषेतरयोगाभ्याम्' इति संहितया, अन्यथा च अकारप्रश्लेषविश्लेषाभ्यां, तेन 'ज्ञानं बन्धः, अज्ञानं बन्ध' इति चायमर्थः, इत्यज्ञानशब्दस्य अपूर्णज्ञाना- भिधानलक्षणः ॥ २७ ॥ एतदेव व्याचष्टे चैतन्यमिति भावान्तः शब्दः स्वातन्त्र्यमात्रकम् । अनाक्षिप्तविशेषं सदाह सूत्रे पुरातने ॥२८॥ द्वितीयेन तु सूत्रेण क्रियां वा करणं च वा । ब्रुवता तस्य चिन्मात्ररूपस्य द्वैतमुच्यते ॥२९॥ द्वैतप्रथा तदज्ञानं तुच्छत्वाद्वन्ध उच्यते । तत एव समुच्चेयमित्यावृत्त्या निरूपितम् ॥३०॥ इह न किञ्चिदप्यचेतितं भवति इति चितिक्रिया सर्वसामान्यरूपा इति । चेतयति इति चेतनः पूर्ण- ज्ञानक्रियावान्, तस्य भावः 'चैतन्यं' पूर्णज्ञानक्रिया- पं० १६ ख० पु० पूर्णज्ञानवान् इति पाठः ।