तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 68, कुल 368 में से
संदर्भ में पढ़ें५८ श्रीतन्त्रालोकः । अज्ञानमिति न ज्ञानाभावश्चातिप्रसङ्गतः । स हि लोष्ठादिकेऽप्यस्ति न च तस्यास्ति संसृतिः ॥ २५ ॥ कोऽसावतिप्रसङ्ग इत्याह—'स हि' इत्यादि । तद्युक्तमुक्तमज्ञानशब्दस्य अपूर्णं ज्ञानमर्थ इति ॥२५॥ तदाह अतो ज्ञेयस्य तत्त्वस्य सामस्त्येनाप्रथात्मकम् । ज्ञानमेव तदज्ञानं शिवसूत्रेषु भाषितम् ॥२६॥ 'अतो' यथोक्ताद्धेतोः 'ज्ञेयस्य' नीलसुखादेः, 'ज्ञेयस्य च परं तत्त्वं यः प्रकाशात्मकः शिवः ।' इत्यादिवक्ष्यमाणस्वरूपस्य 'तत्त्वस्य' 'सामस्त्येन' तस्य सर्वत्राविशेषात् तदेकघनाकारत्वेन 'अप्रथात्मकं' यत् इदं नीलम् इदं सुखम् इति द्वैतप्रथात्मकत्वाद- पूर्णं 'ज्ञानं' तदेव 'अज्ञानं' न पुनर्ज्ञानाभावमात्रम् इत्येतच्छिवसूत्रेषु 'भाषितम्' उक्तमित्यर्थः ॥२६॥ तत्र चैतत्कुत्र दर्शितम् इत्याशङ्क्याह पं० ११ ख० पु० वक्ष्यमाणसतत्त्वस्येति पाठः । पं० १५ क० पु० शिवसूत्रेषु दर्शितमित्यर्थ इति पाठः ।