तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 67, कुल 368 में से
संदर्भ में पढ़ेंश्लोकः २४] प्रथमाह्निकम् । ५७ 'परमार्थविकल्पेऽपि नाव्लीयेत पण्डितः । को हि भेदो विकल्पस्य शुभे वाऽप्यथ वाऽशुभे ॥' इत्याद्युक्तं, पौरुषे पुनरज्ञाने दीक्षादिना निवृत्ते सति यदि बौद्धं ज्ञानमुदियात् तदा तस्य वक्ष्यमाणनीत्या जीवन्मुक्तिं प्रत्यपि कारणत्वं भवेत्, केवलेन पुन- स्तेन न किंचित्सेत्स्यति इत्युक्तप्रायम् । पौरुषं पुनर्जा- नमुदितं सत् अन्यनिरपेक्षमेव मोक्षकारणम् । यदुक्तं 'पाशाश्च पौरुषाः शोध्या दीक्षायां न तु धीगताः । तेन तस्यां दोषवत्यामपि दीक्षा न निष्फला ॥' इति । तच्च ज्ञानमात्रस्वभावम्, अख्यात्यभाव एव हि पूर्णा ख्यातिः, सैव च प्रकाशानन्दघनस्यात्मनस्ता- त्त्विकं स्वरूपं, तत्प्रथनमेव मोक्षः इति युक्तमुक्तम्- 'एतदभावे मोक्षमब्रवीत्' इति ॥ २४ ॥ ननु अज्ञानशब्दस्य अपूर्णं ज्ञानमर्थः इत्यत्र किं निबन्धनं, ज्ञानाभावमात्रमेवास्तु इत्याशङ्क्याह पं० २ ख० पु० शुभे वाप्यशुभेऽथ वा इति पाठः । पं० ५ क० पु० केवलेन पुनर्न किंचिदिति पाठः । पं० १२ क० पु० युक्तमेतदभावे मोक्षमिति पाठः । ८