तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 80, कुल 368 में से
संदर्भ में पढ़ें७० श्रीतन्त्रालोकः । त्रोत्तरं ज्ञानम्, इत्यादिः पूर्वसूत्रप्रतिज्ञातोऽर्थो निर्वाहितः । एवं सांख्यपातञ्जलयोः प्रकृतिपृथग्भा- वेन पुंज्ञानस्य साम्येऽपि सांख्येभ्यः पातञ्जलानामी- श्वरप्रणिधानात् तद्विशिष्यते, इति तेषां पुंस्तत्त्वो- र्ध्ववर्तिनियतितत्त्वप्राप्तिरुक्ता । ‘षड्विंशकं तु देवेशि योगशास्त्रे परं पदम् ।’ इति । एवं च मौसुलपाशुपतादीनामपि यथायथं ज्ञानातिशयादूर्ध्वोर्ध्वतत्त्वावाप्तिः परं पदम् इति । तदुक्तं ‘मौसुले कारुके चैव मायातत्त्वं प्रकीर्तितम् ।’ इति । तथा ‘व्रते पाशुपते प्रोक्तमैश्वरं परमं पदम् ।’ इति । तत्रैवं बौद्धादीनां मायीयादेव मलादंशां- शिकया, मौसुलानां कार्मादपि, पाशुपतानाम् अनात्मनि आत्माभिमानात् आणवादपि मलान्मो- चकं ज्ञानम् इत्युक्तं ‘समासव्यासाभ्याम्’ इति ३३॥ पं० ४ क० पु० प्रणिधानाद्विशिष्यते इति पाठः । पं० ६ क० पु० षड्विंशकं महादेवीति पाठः । पं० १५ ख० पु० आत्मताभिमानादिति पाठः ।