तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 81, कुल 368 में से
संदर्भ में पढ़ेंश्लोकः ३४ ] प्रथमाह्निकम् । ७१ ननु स्वदर्शनौचित्येन एवं बन्धविगलनेऽपि किमिति नासौ मुक्तः इत्याशंक्याह तस्मान्मुक्तोऽप्यवच्छेदादवच्छेदान्तरस्थितेः । अमुक्त एव मुक्तस्तु सर्वावच्छेदवर्जितः ॥ ३४ ॥ ‘......अध्वा बन्धस्य कारणम् ।’ इत्युक्तेः अध्वा तावद्वन्धकः । तत्र बौद्धादयो बुद्धि- तत्त्वान्तबन्धविगलनात् तन्मुक्ता अपि तदूर्ध्ववर्त्य- ध्वान्तरावच्छेदस्थितेरमुक्ता एव, अत एवैषां पुनरपि सर्गारम्भे सृज्यमानत्वात् संसाराविर्भावो,– बन्धकारणस्य निःशेषेणाप्रक्षयात् । यद्वक्ष्यति ‘सांख्यवेदादिसंसिद्धान् श्रीकण्ठस्तदहर्मुखे । सृजत्येव पुनस्तेन न सम्यङ्मुक्तिरीदृशी ॥’ इति । श्रीस्वच्छन्दशास्त्रेऽपि पं० ६ ख० पु० इत्याद्युक्तेरिहाध्वा तावदिति पाठः । पं० ७ ख० पु० तत्त्वान्तर्बन्धविगलनात् इति पाठः । क० पु० विगलनान्मुक्ता इति पाठः । पं० ८ ख० पु० अवच्छेदावस्थितेरिति पाठः । पं० १० ख० पु० निःशेषेणाक्रमात् इति प्रथमपाठः संदृश्यते । पं० १२ क० पु० पुनस्तस्मादिति, ख० पु० न सङ्घन्मुक्तिरिति पाठः ।