तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 82, कुल 368 में से
संदर्भ में पढ़ें७२ श्रीतन्त्रालोकः 'लौकिकानां पुनः सृष्टिः पुनः संहार एव च । संसारचक्रमारूढा भवन्ति घटयन्त्रवत् ॥' इत्यादि सामान्येनाभिधाय 'मुक्तं च प्रतिबन्धात्तं पुनर्बध्नाति चेश्वरः । बन्धः संसारतो भूयो यावद्देवं न विन्दति ॥' इति बौद्धाद्यवान्तरदर्शनमुक्तोपलक्षणपरतया विशे- षेणोक्तम् । यः पुनर्निःशेषप्रक्षीणसर्वाध्वबन्धः स एव साक्षान्मुक्तः इत्याह 'मुक्तस्तु सर्वाविच्छेद- वर्जितः' इति । यदुक्तं 'सर्वाध्वनो विनिष्क्रान्तं शैवानां तु परं पदम् ।' इति । तथा 'शैवः सिद्धो भाति मूर्ध्नातिरेषां मुक्तः सृष्टौ पुनरभ्येति नाथः ।' इति ॥ ३४ ॥ अत्र चैवं-विधमेव पूर्णं ज्ञानं निमित्तम् इत्याह यत्तु ज्ञेयसतत्त्वस्य ज्ञानं सर्वात्मनोज्झितम् । अवच्छेदैर्न तत्कुत्राप्यज्ञानं सत्यमुक्तिदम् ॥३५॥ पं० १ क० पु० पुनः संसार इति पाठः । पं० ५ ख० पु० यावद्देहं न विन्दति इति पाठः । पं० ६ क० पु० बद्धयातयेति पाठः ।