तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 83, कुल 368 में से
संदर्भ में पढ़ेंश्लोकः ३८ ] प्रथमाह्निकम् । ७३ 'अवच्छेदैः' संकोचाधायिभिरिदन्तापरामर्शैः 'सर्वा- त्मना' सर्वप्रकारं वासनामात्रेणापि यत् 'उज्झितं' पराहन्तापरामर्शसारमित्यर्थः । अत एव च पूर्णा- प्रथात्मकत्वात् 'न तत् कुत्राप्यज्ञानम्' अतश्च 'सत्यां' मुक्त्याभासविलक्षणां 'मुक्तिं' ददाति, अहंपरामर्श- सारप्रमात्रैकात्म्येन स्फुरति इत्यर्थः ॥ ३५ ॥ इदानीमुद्दिष्टयोर्ज्ञानाज्ञानयोरेव स्वरूपं विभजति ज्ञानाज्ञानस्वरूपं यदुक्तं प्रत्येकमप्यदः । द्विधा पौरुषबौद्धत्वभिदोक्तं शिवशासने ॥३६॥ 'शिवशासने' इति पञ्चस्रोतो Maxime:रूपे पारमेश्वरदर्शने इत्यर्थः । एतद्धि सर्वत्रैवाविशेषेणोक्तम् ॥ ३६ ॥ तदेव लक्षयति तत्र पुंसो यद