तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
श्लोकः ३८ ] प्रथमाह्निकम् । ७३ 'अवच्छेदैः' संकोचाधायिभिरिदन्तापरामर्शैः 'सर्वा- त्मना' सर्वप्रकारं वासनामात्रेणापि यत् 'उज्झितं' पराहन्तापरामर्शसारमित्यर्थः । अत एव च पूर्णा- प्रथात्मकत्वात् 'न तत् कुत्राप्यज्ञानम्' अतश्च 'सत्यां' मुक्त्याभासविलक्षणां 'मुक्तिं' ददाति, अहंपरामर्श- सारप्रमात्रैकात्म्येन स्फुरति इत्यर्थः ॥ ३५ ॥ इदानीमुद्दिष्टयोर्ज्ञानाज्ञानयोरेव स्वरूपं विभजति ज्ञानाज्ञानस्वरूपं यदुक्तं प्रत्येकमप्यदः । द्विधा पौरुषबौद्धत्वभिदोक्तं शिवशासने ॥३६॥ 'शिवशासने' इति पञ्चस्रोतो Maxime:रूपे पारमेश्वरदर्शने इत्यर्थः । एतद्धि सर्वत्रैवाविशेषेणोक्तम् ॥ ३६ ॥ तदेव लक्षयति तत्र पुंसो यद
७४ श्रीतन्त्रालोकः । अथ-शब्द आनन्तर्ये, उद्देशानन्तरं हि लक्षणपरी- क्षयोरवसरः इत्याशयः। 'तत्र' द्विविधयोर्ज्ञानाज्ञान- योर्मध्यात् '.........पुंसः प्रादुर्भवत्परम्।' इत्यस्यात्मनोऽपि यत्समनन्तरोक्तस्वरूपं मला- ख्यमनन्यसाधारणानवच्छिन्नज्ञानक्रियायोगि पर- प्रमातृरूपाच्छिवादेव जातमुद्भूतमित्यर्थः । परमे- श्वर एव हि स्वस्वातान्त्र्यात्पूर्णज्ञत्वकर्तृत्वाद्यपह- स्तनेन अख्यात्यात्मकाणवमलाविर्भावेन स्वात्मान- मावृणुयात् । तदुक्तं 'परमं यत्स्वातन्त्र्यं दुर्घटसंपादनं महेशस्य । देवी मायाशक्तिः स्वात्मावरणं शिवस्यैतत् ॥ ( प० सा० १५ का० ) मायापरिग्रहवशाद्- बोधो मलिनः पुमान्पशुर्भवति ।' ( प० सा० १६ का० ) इति । वक्ष्यति च ७ नाममात्रेण वस्तुसंकीर्तनमुद्देशः, सजातीयविजातीयासाधारणनिरूपकं कारणं लक्षणम्, युक्त्ययुक्तिविवेकः परीक्षा इति ।
श्लोकः ३८ ] प्रथमाह्निकम् । ७५ ‘तेन स्वरूपस्वातन्त्र्यमात्रं मलविजृम्भितम्।’ इति। तदेव पशोराणवादिमलत्रययोगिनोऽपि तस्य मातुर्देशकालाद्यवच्छिन्नत्वान्नियतदृक्क्रियास्वाभासा- लोचनात्मकं ज्ञानम् । परमेश्वर एव हि सर्वज्ञताद्यप- हस्तनेन अणुतां प्रापितस्य स्वात्मनः पुनरपि कला- दियोगं कृतवान्, येनास्य नियतं ज्ञत्व-कर्तृत्वाद्य- भियुक्तं । तदुक्तं ‘असूत सा कलातत्त्वं यद्योगादभवत्पुमान् । जातकर्तृत्वसामर्थ्यो विद्यारागौ ततोऽसृजत् ॥ विद्या विवेचयत्यस्य कर्म तत्कार्यकारणे । रागोऽपि रञ्जयत्येनं स्वभोगेष्वशुचिष्वपि ॥ नियतिर्योजयत्येनं स्वके कर्मणि पुद्गलम् । कालोऽपि कलयत्येनं त्रुट्यादिभिरवस्थितः ॥’ इति। ज्ञानस्वरूपस्य प्रथममुद्देशेऽपि अवश्योच्छेद्यत्व- प्रतिपादनार्थमादावज्ञानस्वरूपं निरूपितम् ॥ ननु पुंसो बुद्धिवृत्त्यात्मकं ज्ञानं निर्विकल्पकम् पं० ८ क० पु० अभवत्पुन इति पाठः । पं० ६ ख० पु० ज्ञातकर्तृत्वेति पाठः । पं० १० ख० पु० विवेदयत्यस्येति पाठः । पं० १४ क० पु० अवच्छेद्यत्वेति पाठः ।
७६ श्रीतन्त्रालोकः । इत्युच्यते, तत् कथमेतत् बुद्ध्यंशोपनिपाति न स्यात् इत्याशंक्याह तदज्ञानं न बुद्ध्यंशोऽध्यवसायाद्यभावतः ३८॥ एवमपि हि बुद्धेः 'अध्यवसायो बुद्धिः' इत्याद्युक्तेरध्यवसाय एव मुख्यं रूपं, कथमस्य एतदभावे तद्धर्मत्वं स्यात् ॥ ३८ ॥ अत एवाह अहमित्थमिदं वेद्मीत्येवमध्यवसायिनी । षट्कञ्चुकाबिलागूत्थप्रतिबिम्बनतो यदा ॥३६॥ धीर्जायते तदा तादृग्ज्ञानमज्ञानशब्दितम् । बौद्धं तस्य च तत्पौंसं पोषणीयं च पोष्टृ च ४०॥ अस्याश्चैवमध्यवसाययोगित्वे हेतुः 'षट्कञ्चुक' इति । षट्कञ्चुकैः 'कालकलानियतिबलाद्रागाविद्यावशेन संबद्धः ।
पं० ३ ख० पु० बुद्ध्यंशो व्यवसायेति पाठः । पं० ११ ख० पु० धीर्जायेतेति पाठः । पं० १५ क० पु० सम्बन्ध इति पाठः ।
श्लोकः ४० ] प्रथमाह्निकम् । ७७ अधुनैव किंचिदेवेदमैव सर्वात्मनैव जानामि । मायासहितं कञ्चुकषट्कमणोरन्तरङ्गमिदमुक्तम् ॥' ( प० सा० १६ उ० १७ ) इत्यादिना निरूपितस्वरूपैः 'आबिलः' प्रतिनियत- ज्ञत्वकर्तृत्वाद्युत्पत्त्या म्लानप्रायो योऽसौ 'अणुः' परि- मितात्मा, ततो जातात् 'प्रतिबिम्बनात्' 'चिच्छायासं- क्रमणात् इत्यर्थः । एवं ह्यस्याः पुंबोधव्यक्तिभूमित्वा- देवंस्वभावो भवेत् इति भावः । 'तादृक्' इति एव- मव्यवसायरूपम् । अनयोश्च परस्परं कार्यकारणभावं दर्शयितुमाह 'तस्य' इत्यादि, 'तस्य' इति बौद्धस्य, 'पौस्नं' पुंसि भवं पौरुषम् इत्यर्थः । 'पोषणीयं ' कार्यम् इत्यर्थः । कामशोकाद्यावेशभाजो हि तन्मय- तानुसंधानादिना तत्तदर्थसाक्षात्कारात्मकमविकल्पकं ज्ञानमुदियात् । यदाहुः 'कामशोकभयोन्मादचौरस्वप्नाद्युपप्लुताः । अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ॥' इति । 'पोष्टृ' इति कारणम् । स्वप्नादावपि अनुभव पं० १६ क० पु० पुरतोऽवस्थितानि वेति पाठः ।
७८ श्रीतन्त्रालोकः । एव हि प्राच्यो निमित्तं, नहि नारिकेलद्वीपवासिनो वह्निविकल्पादाविच्छापि भवेत् ॥ ३६ ॥ ४० ॥ एवमज्ञानं निरूप्य, ज्ञानमपि द्विविधं निरूपयितु- माह क्षीणे तु पशुसंस्कारे पुंसः प्राप्तपरास्थितेः । विकस्वरं तद्विज्ञानं पौरुषं निर्विकल्पकम् ॥४१॥ विकस्वराविकल्पात्मज्ञानौचित्येन यावसा । तद्बौद्धं यस्य तत्पौरुसं प्राग्वत्पोष्यं च पोष्टृ च ॥ ४२ ॥ पशोराणवस्यापि वासनामात्रक्षयाभिधानात् 'नि- मित्ताभावे नैमित्तिकस्याप्यभावः' इति न्यायेन कार्म- मायीयोरपि प्रक्षयान्निवृत्त निखिलबन्धस्य 'पुंसः' अत एव प्राप्तपरमचिदैकात्म्यस्य 'विकस्वरं' पराहन्ता- विमर्शात्मकं 'निर्विकल्पकं' कृत्रिमाहंकारादिविकल्प- पं० ५ ख० पु० प्राप्तपुरस्थितिरिति पाठः । पं० १० क० पु० पशोरावरकस्यापि इति पाठः । पं० १३ ख० पु० प्राप्तपरसंविदैकात्म्यस्य इति पाठः ।
श्लोकः ४३ ] प्रथमाह्निकम् । ७९ विलक्षणं ज्ञानं पौरुषं भवति इति वाक्यार्थः । 'औचित्येन' इति तद्द्रूपूर्णेनात्मना इत्यर्थः । अतश्च 'सर्वो ममायं विभवः' इत्येवंरूपत्वमस्याः । 'यस्य' इति बौद्धज्ञानस्य । 'प्राग्वत्' इति यथैवाज्ञानयोः परस्परं पोष्यपोषकभावस्तथैव इत्यर्थः । तथैव पूर्णा- पूर्णात्वेन पुनः विशेषो ग्राह्यः, अन्यथा हि ज्ञाना- ज्ञानयोः स्वरूपमेवाभिहितं न स्यात् ॥ ४१ ॥ ४२ ॥ नन्वेवंविधमज्ञानं तावदनाद्येवावस्थितम् इति नास्ति विवादः, एतद्भावात्मकं ज्ञानं पुनः कदा समुदियात्, एतद्भावे च किं निमित्तम् ? इत्याश- ङ्क्याह तत्र दीक्षादिना पौंसमज्ञानं ध्वंसि यद्यपि । तथापि तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटम् ॥ ४३ ॥ यद्यप्युक्तस्वरूपं 'पौंसमज्ञानं' पं० ३ क० पु० सर्वोऽयं मम विभव इत्येवंरूपः पाठः । पं० १३ क० पु० तथापि तु शरीरान्ते इति पाठः ।
८० श्रीतन्त्रालोकः । 'दीयते ज्ञानसद्भावः क्षीयन्ते पशुवासनाः । दानक्षपणसंयुक्ता दीक्षा तेनेह कीर्तिता ।।' इत्याद्युक्तस्वरूपया दीक्षया नश्यत्येव 'तथापि' 'तत्' अज्ञानाभावमात्ररूपमात्मज्ञानं व्यक्त्युन्मुखमपि '..................प्रारब्धेकं न शोधयेत् ।' इत्याद्युक्तेरिदंशरीरारम्भकस्य कार्ममलस्य सद्भावात् 'तस्य' वर्तमानशरीरस्य 'अन्ते स्फुटं व्यज्यते' '..................देहपाते शिवं व्रजेत् ।' इत्याद्युक्त्या साक्षात्कारात्म स्फुरति इत्यर्थः । आदिशब्दाच्च शेषवृत्त्या ग्रहणं, न तु तीव्रतरशक्ति- पातादेः, तद्धि दीक्षायां निमित्तम् इति तद्दहनेनै- वास्य ग्रहः सिद्धः, न चास्मिन्दीक्षातोऽन्यत्किंचि- न्मुक्तौ निमित्तम् । तदुक्तं 'तस्मात्प्रवितताद्बन्धात्परस्थानविरोधकात् । दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि ।।' पं० ५ क० पु० प्रारब्धं केन शोधयेदिति पाठः । पं० १० ख० पु० तीव्रतमशक्तिपातादेव इति पाठः । पं० ११ ख० ग० पु० तद्दहनेनैवास्य ग्रह इति, न चान्यस्मिन्दीक्षेति च पाठः ।
श्लोक ४४] प्रथमाह्निकम् । ८१ इति । तीव्रतमशक्तिपातादौ पुनरनुपायादिक्रमेण दीक्षा भवेत्, येनास्य तत्कालमेवापवर्गः । तदुक्तं 'तत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते ।' इति दीक्षानिरपेक्षमेव पुनरेतत् मुक्तौ निमित्तम् इति न संभाव्यम्, एवं श्रुतिविरोधः स्यात् । 'तस्य दीक्षां विनैवात्मसंस्कारपरिणामतः । सम्यग्ज्ञानं भवेत्सर्वशास्त्रेषु परिनिष्ठितम् ॥' इत्यादौ पुनर्बाह्यक्रियादीक्षाभिप्रायेण तन्निषेधो विवक्षितः, अन्यथा ह्यत्रात्मसंस्कारशब्दार्थ एव कथं संगच्छताम् इत्यलं बहुना ॥ ४३ ॥ ननु यद्येवं दीक्षया देहान्त एव मुक्तिर्भवेत्, तत्कथं 'जीवन्नेव विमुक्तोऽसौ' इत्याद्युक्तम् इत्या- शङ्क्याह बौद्धज्ञानेन तु यदा बौद्धमज्ञानजृम्भितम् । विलीयते तदा जीवन्- मुक्तिः करतले स्थिता ॥ ४४ ॥ पं० ३ क० पु० तत्क्षणादपव्यज्यत इति पाठः । पं० ६ ख० पु० संस्कारपरिपाकत इति पाठः । पं० ८ क० पु० पुनर्वाक्यक्रियेति ख० पु० पुनर्वाक्ये क्रिया इत्यादिरूपः पाठः । ११
८२ श्रीतन्त्रालोकः । 'बौद्धज्ञानेन' इति परमेश्वराद्वयशास्त्रश्रवणाद्यु- द्भूतेन । तदुक्तं 'गुरुणैव यदा काले संप्रदायो निरूपितः । तदाप्रभृति मुक्तोऽसौ यन्त्रं तिष्ठति केवलम् ॥' इति । एतच्च दीक्षिताधिकारेणैव ज्ञेयम्, नहि अकृतदीक्षस्य शास्त्रश्रवणेऽप्यधिकारः इति कुतस्त- दवबोधनिमित्तकोऽपि तज्ज्ञानाविर्भावः स्यात् । तदुक्तं 'अदीक्षितानां पुरतो नोच्चरेच्छिवपद्धतिम् ।' इति । न च अप्रध्वस्तपौरुषाज्ञानस्य अनेन किंचि- द्भवति इत्युक्तप्रायम्, अन्यथा हि प्रेक्षावतां दीक्षायां प्रवृत्तिरेव न स्यात्-साध्यस्यार्थस्य अत एव स्रष्टुरभावात्, अत एव दीक्षायां शिथिला- स्थत्वं न वाच्यं, तस्या एव मुक्तिं प्रति मूलकारण- त्वात् । एवं दीक्षादिना पौंस्नं ज्ञानमभिव्यक्त्युन्मु- खमपि न तदैव मुक्तिप्रदं - देहान्ते तदभिव्यक्तेरुक्त- त्वात्, इदं पुनस्तदैव इति ततोऽस्य प्राधान्यमपि कटाक्षितम् ॥ ४४ ॥ पं० ५ क० पु० दीक्षाधिकारेणैवेति पाठः ।
श्लोक ४५ ] प्रथमाह्निकम् । ८३ न केवलमेतदेवास्य ततः प्राधान्यनिमित्तं याव- दन्यदपि इत्याह दीक्षापि बौद्धविज्ञान- पूर्वा सत्यं विमोचिका । तेन तत्रापि बौद्धस्य ज्ञानस्यास्ति प्रधानता ॥४५॥ इह ‘सर्वलक्षणहीनोऽपि ज्ञानवान्गुरुरुत्तमः ।’ इत्याद्युक्तेरधिगतशास्त्रार्थस्यैव हि गुरोर्दीक्षायाम् अधिकारः, अत एव तस्य ‘शिवशास्त्रविधानज्ञं ज्ञानज्ञेयविशारदम् ।’ इति लक्षणं प्राधान्येनोक्तं, अन्यथा पुनः ‘शास्त्रहीने न सिद्धिः स्याद्दीक्षायां वीरवन्दिते ।’ इत्याद्युक्त्या दीक्षा विमोचिकैव न स्यात्, तेन इति दीक्षायां बौद्धस्य ज्ञानस्य कारणत्वात्, नहि तेन विना तस्या निष्पत्तिरेव स्यात् ॥ ४५ ॥ न चैतदस्मदुपज्ञमेव इत्याह पं० ३ ग० पु० दीक्षापि चात्र विज्ञानपूर्वा सद्योविमोचिकेति पाठः । पं० ६ क० पु० शास्त्रस्यैव गुरोरिति, दीक्षायामेवेति एव शब्दाधिकश्च पाठः ।
८४ श्रीतन्त्रालोकः । ज्ञानाज्ञानगतं चैतद्- द्वित्वं स्वायम्भुवे रुरौ । मतङ्गादौ कृतं श्रीमत्- खेटपालादिदैशिकैः ॥४६॥ तदुक्तं श्रीस्वायम्भुवे 'अथात्ममलमायाख्यकर्मबन्धविमुक्तये । व्यक्तये च शिवत्वस्य शिवज्ञानं प्रवर्तते ॥' इति । 'अथानादिर्मलः पुंसां पशुत्वं परिकीर्तितम् । तत्सद्भाववशोऽज्ञादिः पाशौघः पौरुषः स्मृतः ॥ तस्मात्तत्तत्त्वतो ज्ञेयं मोक्षमक्षयमिच्छता ।' इति च । श्रीरुरवापि 'यजन्ति विविधैर्यज्ञैर्मन्त्रतत्त्वविशारदाः । गुरुतन्त्रानुज्ञातदीक्षासिच्छिन्नसंशयाः ॥' इति । 'न मीमांस्या विचार्या वा मन्त्राः स्वल्पधिया नरैः । प्रमाणमागमं कृत्वा श्रद्धातव्या विचक्षणैः ॥ पं० १ क० पु० ज्ञानाज्ञानकृतमिति पाठः । पं० १३ ख० पु० जयन्तीति पूर्वतनः पाठश्च दृश्यते, क० पु० मन्त्रतन्त्र- विशारदा इति च पाठः । पं० १४ क० पु० दीक्षाविच्छिन्नसंशया इति पाठः । पं० १६ क० पु० न मीमांसा विचार्या वा मन्त्रस्वल्पधियेति पाठः ।
श्लोक ४६ ] प्रथमाह्निकम् । ८५ सर्वे मन्त्रात्मका देवाः सर्वे मन्त्राः शिवात्मकाः । शिवात्मकमिदं ज्ञात्वा शिवमेवानुचिन्तयेत् ॥' इति च । श्रीमत्तङ्गेऽपि 'ततः स भगवानीशः स्फुरन्माणिक्यशेखरः । वाक्यानलसमुत्थेन ज्वालावीर्येण मन्त्रराट् ॥ प्रददाह मुनेः सर्वमज्ञानं तृणराशिवत् ।' इति । 'शिववक्त्राम्बुजोद्भूतममलं सर्वतोमुखम् ॥ शिवत्वोन्मीलनं तथ्यं ज्ञानमज्ञाननाशनम् । अनेन सिद्धाः पश्यन्ति यत्तत्पदमनामयम् ॥' इति च । आदिशब्देन चिल्लाचक्रेश्वरीमतादेर्ग्रह- णम् । तदुक्तं तत्र 'बौद्धं च पौरुषेयं च द्विविधं तन्मलं स्मृतम् । तत्र दीक्षादिना याति पौरुषेयं मलं क्षयम् ॥ बौद्धमक्षयमेवास्ते तावत्तावत्समुद्रितम् । यावन्न बौद्धमेवास्य सजातीयविलापकम् ॥ पं० १ ख० पु० सर्वे वर्णात्मका मन्त्राः सर्वे वर्णाः शिवात्मका इति शोधितः पाठोऽस्ति । पं० २ क० पु० शिवात्मकमिदं कृत्वेति पाठः । पं० १५ ख० पु० बौद्धमक्षतमिति पाठः ।
प्रकाशात्मकशिवस्वभावत्वं, तस्य प्रदर्शकम् पराद्वयो-
८६ श्रीतन्त्रालोकः । ज्ञानमभ्युदितं सम्यक्सारेतरविभागकृत् ।' इति । पौंस्नज्ञानाभिव्यञ्जने दीक्षा तावन्न प्रभवेद्या- वदस्य बौद्धं ज्ञानं पूर्वभावि न स्यात्, येनास्य ततोऽपि प्राधान्यमुक्तम् ॥ ४६ ॥ एवं बौद्धमपि ज्ञानं पारमेश्वरं शास्त्रमन्तरेण कुतः समुदियात् इति तदेव मूलकारणत्वादिह प्रधानम् इत्याह तथाविधावसायात्म- बौद्धविज्ञानसम्पदे । शास्त्रमेव प्रधानं य- ज्ज्ञेयतत्त्वप्रदर्शकम् ॥ ४७ ॥ 'संपदे' इति तां जनयितुम् इत्यर्थः। यतो 'ज्ञेयस्य' नीलसुखादेः 'तत्त्वं' प्रकाशमानत्वान्यथानुपपत्त्या प्रकाशात्मकशिवस्वभावत्वं, तस्य प्रदर्शकम् पराद्वयो- पदेशकारित्वात्तदभिधायकम् इत्यर्थः । अत एव चास्य तद्प्रदर्शक तया शास्त्रान्तरेभ्यो वैलक्षण्यमपि कटाक्षितम् ॥ ४७ ॥ पं० ३ ख० पु० बौद्धमपि ज्ञानमिति पाठः । पं० ११ ग० पु० प्रधानं यन्ज्ञेयतत्त्वप्रकाशकमिति पाठः ।
श्लोक ४९ ] प्रथमाह्निकम् । ८७ ननु भवत्वेवम्, अत्र पुनः किं निमित्तं यत्पौंस्ना- ज्ञाननिवृत्तौ देहान्ते मुक्तिः, बौद्धाज्ञाननिवृत्तौ तु तदैव इत्याशङ्क्याह दीक्षया गलितेऽप्यन्त- रज्ञाने पौरुषात्मनि । धीगतस्यानिवृत्तत्वा- द्विकल्पोऽपि हि संभवेत् ॥ ४८ ॥ 'धीगतस्य' इति अज्ञानस्य । 'विकल्पो हि' भेद- प्रथात्मकः स चैव अख्यातिरूपत्वादज्ञानम् इति बहूक्तम् ॥ ४८ ॥ ननु धीगतमज्ञानं यदि न निवृत्तं तदात्मनः किमायातम् इत्याशङ्क्याह देहसद्भावपर्यन्त- मात्मभावो यतो धियि । देहान्तेऽपि न मोक्षः स्या- त्पौरुषाज्ञानहानितः ॥ ४९ ॥ पं० २ क० पु० देहान्ते निवृत्तिरिति पाठः । पं० ६ क० पु० निवृत्तत्वादिति पाठः । पं० ९ क० ख० पु० सा चैवेति पाठः । पं० १३ क० पु० देवसद्भावेति पाठः ।
८८ श्रीतन्त्रालोकः । दीक्षितस्यापि हि नियतकालं बुद्धावात्मग्रहो भवेत् इति तयोरभेदाद् बौद्धमप्यज्ञानमात्मन्युपचितं संभवेत् इति भावः । अत एव देहान्ते बुद्धावात्मग्रह- व्युपरमात् पौरुषस्याज्ञानस्य दीक्षादिना पूर्वमेव प्रध्वस्तत्वान्मोक्षः इति युक्तमुक्तं 'तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटम्' इति ॥ ४६ ॥ एवं विकल्पोऽत्र संभवन्मुक्तौ व्यवधायकः इति न तदैव मुक्तिः, तस्य पुनरसंभवे सत्यपि देहे मुक्तिः इत्याह बौद्धाज्ञाननिवृत्तौ तु विकल्पोन्मूलनाद्ध्रुवम् । तदैव मोक्ष इत्युक्तं धात्रा श्रीमन्निशाटने ॥५०॥ न चैतदप्रमाणकम् इत्याह 'इत्युक्तम्' इत्यादि ॥५०॥ विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत् । इतरस्तु तदैवेति शास्त्रस्यात्र प्रधानतः ॥५१॥ पं० ५ क० पु० ततः शरीरान्ते इति पाठः ।
श्लोक ५२ ] प्रथमाह्निकम् । ८९ ‘इतर’ इति निर्विकल्पः । ‘तदैव’ इति देहसद्भावे इत्यर्थः । यदुक्तं तत्रैव ‘विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत् ।’ विकल्पहीनचित्तस्तु ह्यात्मानं शिवमव्ययम् ॥ पश्यते भावशुद्ध्या यो जीवन्मुक्तो न संशयः ।’ इति। इदानीं प्राक्प्रतिज्ञातं शास्त्रस्यैव प्राधान्यं निगमयति-इति इत्यादिना, ‘इतिशब्दः’ काकाक्षि- न्यायेन योज्यः, तेन श्रीनिशाटनग्रन्थसमाप्तौ हेतौ च व्याख्येयः । स च ‘ज्ञेयतत्त्वप्रदर्शकम्’ इत्यादिना प्रागप्युक्तः ॥ ५१ ॥ ननु किं नाम ज्ञेयस्य तत्त्वं यत्प्रदर्श्यमानं शास्त्र- प्राधान्यावगमकमपि स्यात् इत्याशङ्क्याह ज्ञेयस्य हि परं तत्त्वं यः प्रकाशात्मकः शिवः । नह्यप्रकाशरूपस्य प्राकाश्यं वस्तुतापि वा ॥५२॥ पं० १ ख० पु० देवसद्भावे इति पाठः । पं० ३ ख० पु० विकल्पहीणचित्तस्तु इति पाठः । पं० ६ क० पु० ज्ञेयतत्त्वप्रकाशकमिति पाठः । १२
९० श्रीतन्त्रालोकः । 'ज्ञेयस्य' नीलादेर्नीलतैव प्रकाशमानता न ताव- दात्मभूता, तथात्वे हि सर्वदैव सर्वान्प्रति च स्यान्न तु कदाचित्कंचित्प्रति इति सर्वेऽपि सर्वज्ञाः स्युः । अतश्च अस्य प्रकाशते, मम प्रकाशते इति प्रकाशात्मप्रमातृसं- लग्नैव सा युज्यते इति नासौ स्वातन्त्र्येण पर्यवसि- तस्वरूपो नीलादिः, शिव एव प्रकाशात्मकः प्रमाता, तदतिरिक्तस्य अन्यस्य भेदाभेदविकल्पोपहतत्वात्, अतश्च नीलादेर्ज्ञेयस्य प्रकाशमानत्वात् स एव पर- मार्थः इत्युक्तं 'प्रकाशात्मकः शिवः परं तत्त्वम्' इति । नन्वसौ स्वयमतथारूपोऽपि प्रकाशसंबन्धात्तथा भविष्यति इत्याशङ्क्याह 'नहि' इत्यादि । प्रकाश- संबन्धेनापि हि प्रकाशमानो नीलादिः स्वयं प्रकाश- रूप एव सन् प्रकाशते, नहि अप्रकाशरूपश्च प्रका- शते च इति स्यात्, नहि अश्वेतः प्रासादः श्वेतते, न चैवं वस्तुत्वमप्यस्य स्यात्, नहि प्रकाशरूपतामप- हाय अन्यद्वस्तु संभवेत् इति भावः ॥ ५२ ॥ पं० १ क० पु० नीलसुखादेरिति पाठः । पं० ५ क० पु० पर्यवस्थितरूपेति पाठः । पं० १२ क० पु० प्रकाशनरूपः प्रकाशते इति पाठः ।
श्लोक ५३ ] प्रथमाह्निकम् । ९१ एवं च न केवलं नीलादेर्ज्ञेयस्य भावस्य प्रकाश- मानत्वात्प्रकाशात्मकः शिवस्तत्त्वं यावत्तदभावस्या- पि इत्याह अवस्तुतापि भावानां चमत्कारैकगोचरा । यत्कुड्यसदृशी नेयं धीरवस्त्वेतादित्यपि ॥ ५३ ॥ यतो 'नास्त्यत्र घट' इत्येवंरूपापि बुद्धिर्बोधस्व- भावत्वात्कुड्यादिजडपदार्थविलक्षणा अत एव घटा- द्यभावोऽपि बुद्ध्यमानत्वात्परमानन्दैकघनबोधा- त्मकशिवस्वभाव एव इत्यर्थः । तदाहुः 'अबोधोऽपि बुद्ध्यमानो बोधात्मभूत ईश्वर एव ।' इति ॥ ५३ ॥ ननु सिद्धे प्रकाशे भावाभावरूपस्य ज्ञेयस्य तदे- कपरमार्थत्वं सिद्ध्येत्, स एव पुनः केन प्रमाणेन सिद्धः इत्याशङ्क्याह पं० ६ क० पु० घटाभावोपीति पाठः ।
प्रकाशो नाम यश्चायं
९२ श्रीतन्त्रालोकः । प्रकाशो नाम यश्चायं सर्वत्रैव प्रकाशते । अनपह्नवनीयत्वात् किं तस्मिन्मानकल्पनैः ॥५४॥ अपूर्वार्थविषयं खलु प्रमाणं । यदाहुः ‘अनधिगतविषयं प्रमाणमज्ञातार्थप्रकाशो वा’ इति । प्रकाशस्य अपूर्वत्वेन प्रकाशो नास्ति सर्वदैव तस्य प्रकाशमानत्वेन ‘अनपह्नवनीयत्वात्’ इति व्यर्थं तत्र प्रमाणपरिकल्पनम् । तथाहि तदा तस्य अपूर्वत्वेन प्रकाशः स्यात्, यद्यसौ पूर्वमनधिगतत्वेन अप्रकाश- मानः स्यात्, तथाभावश्च तद्रहितपूर्वकालस्मृतौ सत्यां भवेत्, स्मृतिरपि एवंरूपमनुभवं विना नोत्प- द्यते, अनुभूतविषयासंप्रमोषात्मकत्वात्तस्याः, न च प्रकाशरहितत्वेन पूर्वकालमनुभवोऽस्ति, तस्यैवानु- भवस्य प्रकाशात्मकत्वात्, स एव हि प्रकाशः इति पं० ११ क० पु० तद्भावश्चेति पाठः । पं० १२ क० पु० एवंरूपानुभवमिति समस्तः पाठः । पं० १५ ख० पु० य एव हि प्रकाश इति पाठः ।