तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 89, कुल 368 में से
संदर्भ में पढ़ेंश्लोकः ४३ ] प्रथमाह्निकम् । ७९ विलक्षणं ज्ञानं पौरुषं भवति इति वाक्यार्थः । 'औचित्येन' इति तद्द्रूपूर्णेनात्मना इत्यर्थः । अतश्च 'सर्वो ममायं विभवः' इत्येवंरूपत्वमस्याः । 'यस्य' इति बौद्धज्ञानस्य । 'प्राग्वत्' इति यथैवाज्ञानयोः परस्परं पोष्यपोषकभावस्तथैव इत्यर्थः । तथैव पूर्णा- पूर्णात्वेन पुनः विशेषो ग्राह्यः, अन्यथा हि ज्ञाना- ज्ञानयोः स्वरूपमेवाभिहितं न स्यात् ॥ ४१ ॥ ४२ ॥ नन्वेवंविधमज्ञानं तावदनाद्येवावस्थितम् इति नास्ति विवादः, एतद्भावात्मकं ज्ञानं पुनः कदा समुदियात्, एतद्भावे च किं निमित्तम् ? इत्याश- ङ्क्याह तत्र दीक्षादिना पौंसमज्ञानं ध्वंसि यद्यपि । तथापि तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटम् ॥ ४३ ॥ यद्यप्युक्तस्वरूपं 'पौंसमज्ञानं' पं० ३ क० पु० सर्वोऽयं मम विभव इत्येवंरूपः पाठः । पं० १३ क० पु० तथापि तु शरीरान्ते इति पाठः ।