तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 88, कुल 368 में से
संदर्भ में पढ़ें७८ श्रीतन्त्रालोकः । एव हि प्राच्यो निमित्तं, नहि नारिकेलद्वीपवासिनो वह्निविकल्पादाविच्छापि भवेत् ॥ ३६ ॥ ४० ॥ एवमज्ञानं निरूप्य, ज्ञानमपि द्विविधं निरूपयितु- माह क्षीणे तु पशुसंस्कारे पुंसः प्राप्तपरास्थितेः । विकस्वरं तद्विज्ञानं पौरुषं निर्विकल्पकम् ॥४१॥ विकस्वराविकल्पात्मज्ञानौचित्येन यावसा । तद्बौद्धं यस्य तत्पौरुसं प्राग्वत्पोष्यं च पोष्टृ च ॥ ४२ ॥ पशोराणवस्यापि वासनामात्रक्षयाभिधानात् 'नि- मित्ताभावे नैमित्तिकस्याप्यभावः' इति न्यायेन कार्म- मायीयोरपि प्रक्षयान्निवृत्त निखिलबन्धस्य 'पुंसः' अत एव प्राप्तपरमचिदैकात्म्यस्य 'विकस्वरं' पराहन्ता- विमर्शात्मकं 'निर्विकल्पकं' कृत्रिमाहंकारादिविकल्प- पं० ५ ख० पु० प्राप्तपुरस्थितिरिति पाठः । पं० १० क० पु० पशोरावरकस्यापि इति पाठः । पं० १३ ख० पु० प्राप्तपरसंविदैकात्म्यस्य इति पाठः ।