तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 87, कुल 368 में से
संदर्भ में पढ़ेंश्लोकः ४० ] प्रथमाह्निकम् । ७७ अधुनैव किंचिदेवेदमैव सर्वात्मनैव जानामि । मायासहितं कञ्चुकषट्कमणोरन्तरङ्गमिदमुक्तम् ॥' ( प० सा० १६ उ० १७ ) इत्यादिना निरूपितस्वरूपैः 'आबिलः' प्रतिनियत- ज्ञत्वकर्तृत्वाद्युत्पत्त्या म्लानप्रायो योऽसौ 'अणुः' परि- मितात्मा, ततो जातात् 'प्रतिबिम्बनात्' 'चिच्छायासं- क्रमणात् इत्यर्थः । एवं ह्यस्याः पुंबोधव्यक्तिभूमित्वा- देवंस्वभावो भवेत् इति भावः । 'तादृक्' इति एव- मव्यवसायरूपम् । अनयोश्च परस्परं कार्यकारणभावं दर्शयितुमाह 'तस्य' इत्यादि, 'तस्य' इति बौद्धस्य, 'पौस्नं' पुंसि भवं पौरुषम् इत्यर्थः । 'पोषणीयं ' कार्यम् इत्यर्थः । कामशोकाद्यावेशभाजो हि तन्मय- तानुसंधानादिना तत्तदर्थसाक्षात्कारात्मकमविकल्पकं ज्ञानमुदियात् । यदाहुः 'कामशोकभयोन्मादचौरस्वप्नाद्युपप्लुताः । अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ॥' इति । 'पोष्टृ' इति कारणम् । स्वप्नादावपि अनुभव पं० १६ क० पु० पुरतोऽवस्थितानि वेति पाठः ।