तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
श्लोकः २१ ] प्रथमाह्निकम् । ५३ सप्तकमुट्टङ्कितम् । अतश्चास्यैव वक्ष्यमाणोपायक्रमेण स्वात्मतया प्रत्यभिजानाजीवन्मुक्तिप्रदत्वं प्रयोजनं श्लोकान्तरासूत्रितमपि 'श्रीशम्भुनाथ' इत्यादि- श्लोकेन साक्षादुक्तम् । एतदुद्दिश्य च को नाम न सचेताः परमेश्वरशक्तिपातपवित्रितः प्रवर्तते इत्यस्य प्रवृत्तिनिमित्तत्वं, प्रवृत्तस्याप्येतदुपलब्धौ 'तमनित्येषु भोगेषु योजयन्ति विनायकाः ।' इत्याद्युक्तेर्विघ्नाः संभवन्ति इत्येतन्निरासाय गणे- शवटुकयोः स्तुतिः । 'अर्थितो रचये' इति प्रतिज्ञा- तायाः प्रक्रियायाश्च 'तन्मया तन्यते तन्त्रालोकनाम्न्यत्र शासने ।' इत्यादिवक्ष्यमाणोपजीवनेन तन्त्रालोक इत्यभि- धानम् । एवमभिधानाभिधेययोरभिधेयप्रयोजन- योश्च वाच्यवाचकसाध्यसाधनभावलक्षणः संबन्ध- श्चार्थाक्षिप्तः इत्यनेकवाक्यसंमेलनात्मकमेकमेवादि- वाक्यं प्रवृत्तिहेतुतया उक्तम् इति पिण्डार्थः ॥२१॥ पं० १४ ख० पु० साधनभावाभावलक्षणेति पाठः । पं० १५ ख० पु० संमेलनात्मकमेकमेवेदमादिवाक्यप्रवृत्तिहेतु इत्यादिरूपः पाठः ।
५४ श्रीतन्त्रालोकः । इह यद्यपि सर्ववादिनां मोक्ष एव उपादेयः, तत्प्रतिपक्षभूतः संसारश्च हेयः, तस्य च मिथ्याज्ञानं निमित्तं, तत्प्रतिकूलं च तत्त्वज्ञानम्-इति तत्साक्षा- त्कारेणैव अज्ञानापगमान्मोक्षावाप्तिः इत्यत्राविवादः, तथापि तैस्तदेकनियतं ज्ञानाज्ञानयोः स्वरूपं न ज्ञातम् इति 'भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया ।' इत्याद्युक्त्या तदभ्युपगतो मोक्षो मोक्ष एव न भवति - इति दर्शयितुं शास्त्रान्तरवैलक्षण्येन तत्परी- क्षणस्य वक्ष्यमाणत्वात्प्राधान्यमपि कटाक्षयितुमुप- क्रम एव बन्धमोक्षपरीक्षामुट्टङ्कयति ग्रन्थकारः इह तावत्समस्तेषु शास्त्रेषु परिगीयते । अज्ञानं संसृतेर्हेतुर्ज्ञानं मोक्षैककारणम् ॥२२॥ न चैतदस्माभिः स्वोपज्ञमेवोक्तम्-इत्याह मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् । इति प्रोक्तं तथा च श्रीमालिनीविजयोत्तरे ॥२३॥
श्लोकः २३ ] प्रथमाह्निकम् । ५५ 'अज्ञानं' तिमिरं पारमेश्वरस्वातन्त्र्यमात्रसमुल्ला- सितस्वरूपगोपनासतत्त्वमात्मानात्मनोरन्यथाभिमा- नस्वभावम् अपूर्णं ज्ञानं, तदेव चाणवं 'मलं', न तु नवमाह्निकादौ निषेत्स्यमानं द्रव्यरूपम् । उक्तं च 'स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता । द्विधाणवं मलमिदं स्वस्वरूपापहानितः ॥' इति । तच्च कीदृक् ? इत्याह—संसार इति । 'संसारस्य' 'भिन्नवेद्यप्रथात्रैव मायाख्यम्............।' इत्याद्युक्तस्वरूपस्य मायीयस्य मलस्य 'संसारकारणं कर्म संसाराङ्कुर उच्यते ।' इति वक्ष्यमाणनीत्या 'अङ्कुरः' कारणं कार्ममलं तस्य 'कारणं' । तदुक्तं 'मलं कर्मनिमित्तं तु नैमित्तिकमतः परम् ।' इति श्रीमालिनीविजयोत्तरे प्रोक्तम् इत्येतदधि- कारेणैवायं ग्रन्थः प्रवृत्त इत्युपोद्बलितम् ॥२३॥ अज्ञानस्य पौरुषबौद्धात्मकत्वेन द्वैविध्येऽपि इह पौरुषमेव विवक्षितं स्यान्नान्यत् इत्याह पं० १ ख० पु० अज्ञानतिमिरमिति समस्तः पाठः । क० पु० समुल्लासितं स्वरूपेति च व्यस्तः पाठः ।
५६ श्रीतन्त्रालोकः । विशेषणेन बुद्धिस्थे संसारोत्तरकालिके । संभावनां निरस्यैतदभावे मोक्षमब्रवीत् ॥२४॥ 'विशेषणेन' 'संसाराङ्कुरकारणम् इत्यनेन' नहि दुरध्यवसायरूपं बौद्धमज्ञानं कर्मणः कारणम् अपि तु तत्तस्य – इति कथमेतद्विशेषणं संगच्छतां, तद्धि सति कर्मकारणे शरीरे संभवति तस्य कार्य- करणात्मकत्वात्, बुद्धेश्च करणवर्गान्तःपातित्वात्, अत एवोक्तं 'संसारोत्तरकालिक' इति, 'शरीरभुवनाकारो मायीयः परिकीर्तितः ।' इत्याद्युक्तेः संसाराच्छरीरादनन्तरभाविनि इत्यर्थः । किं तत्संभावनानिरासेन इत्युक्तं—'एतदभावे मोक्ष- मब्रवीत्' इति । नहि बौद्धाज्ञानमात्रनिवृत्तौ मोक्षो भवेत् यत्तस्मिन्निवृत्ते बौद्धमेव ज्ञानमुदेति' तस्य च शुद्धविकल्पात्मत्वेऽपि 'सर्वो विकल्पः संसारः....................।' इति नीत्या संसाराविर्भावकत्वमेव इति कथमे- तदभावेऽपि एवं स्यात् । यदभिप्रायदितो बाह्यैरपि ५ तदिति कर्म, तस्येति बौद्धाज्ञानस्येत्यर्थः, एतत्—बौद्धमज्ञानमित्यर्थः । पं० ५ ख० पु० कथमस्यैतत् इति पाठः ।
श्लोकः २४] प्रथमाह्निकम् । ५७ 'परमार्थविकल्पेऽपि नाव्लीयेत पण्डितः । को हि भेदो विकल्पस्य शुभे वाऽप्यथ वाऽशुभे ॥' इत्याद्युक्तं, पौरुषे पुनरज्ञाने दीक्षादिना निवृत्ते सति यदि बौद्धं ज्ञानमुदियात् तदा तस्य वक्ष्यमाणनीत्या जीवन्मुक्तिं प्रत्यपि कारणत्वं भवेत्, केवलेन पुन- स्तेन न किंचित्सेत्स्यति इत्युक्तप्रायम् । पौरुषं पुनर्जा- नमुदितं सत् अन्यनिरपेक्षमेव मोक्षकारणम् । यदुक्तं 'पाशाश्च पौरुषाः शोध्या दीक्षायां न तु धीगताः । तेन तस्यां दोषवत्यामपि दीक्षा न निष्फला ॥' इति । तच्च ज्ञानमात्रस्वभावम्, अख्यात्यभाव एव हि पूर्णा ख्यातिः, सैव च प्रकाशानन्दघनस्यात्मनस्ता- त्त्विकं स्वरूपं, तत्प्रथनमेव मोक्षः इति युक्तमुक्तम्- 'एतदभावे मोक्षमब्रवीत्' इति ॥ २४ ॥ ननु अज्ञानशब्दस्य अपूर्णं ज्ञानमर्थः इत्यत्र किं निबन्धनं, ज्ञानाभावमात्रमेवास्तु इत्याशङ्क्याह पं० २ ख० पु० शुभे वाप्यशुभेऽथ वा इति पाठः । पं० ५ क० पु० केवलेन पुनर्न किंचिदिति पाठः । पं० १२ क० पु० युक्तमेतदभावे मोक्षमिति पाठः । ८
५८ श्रीतन्त्रालोकः । अज्ञानमिति न ज्ञानाभावश्चातिप्रसङ्गतः । स हि लोष्ठादिकेऽप्यस्ति न च तस्यास्ति संसृतिः ॥ २५ ॥ कोऽसावतिप्रसङ्ग इत्याह—'स हि' इत्यादि । तद्युक्तमुक्तमज्ञानशब्दस्य अपूर्णं ज्ञानमर्थ इति ॥२५॥ तदाह अतो ज्ञेयस्य तत्त्वस्य सामस्त्येनाप्रथात्मकम् । ज्ञानमेव तदज्ञानं शिवसूत्रेषु भाषितम् ॥२६॥ 'अतो' यथोक्ताद्धेतोः 'ज्ञेयस्य' नीलसुखादेः, 'ज्ञेयस्य च परं तत्त्वं यः प्रकाशात्मकः शिवः ।' इत्यादिवक्ष्यमाणस्वरूपस्य 'तत्त्वस्य' 'सामस्त्येन' तस्य सर्वत्राविशेषात् तदेकघनाकारत्वेन 'अप्रथात्मकं' यत् इदं नीलम् इदं सुखम् इति द्वैतप्रथात्मकत्वाद- पूर्णं 'ज्ञानं' तदेव 'अज्ञानं' न पुनर्ज्ञानाभावमात्रम् इत्येतच्छिवसूत्रेषु 'भाषितम्' उक्तमित्यर्थः ॥२६॥ तत्र चैतत्कुत्र दर्शितम् इत्याशङ्क्याह पं० ११ ख० पु० वक्ष्यमाणसतत्त्वस्येति पाठः । पं० १५ क० पु० शिवसूत्रेषु दर्शितमित्यर्थ इति पाठः ।
श्लोकः ३० ] ( प्रथमाह्निकम् । ५९ चैतन्यमात्मा ज्ञानं च बन्ध इत्यत्र सूत्रयोः । संश्लेषेतरयोगाभ्यामयमर्थः प्रदर्शितः ॥ २७ ॥ 'संश्लेषेतरयोगाभ्याम्' इति संहितया, अन्यथा च अकारप्रश्लेषविश्लेषाभ्यां, तेन 'ज्ञानं बन्धः, अज्ञानं बन्ध' इति चायमर्थः, इत्यज्ञानशब्दस्य अपूर्णज्ञाना- भिधानलक्षणः ॥ २७ ॥ एतदेव व्याचष्टे चैतन्यमिति भावान्तः शब्दः स्वातन्त्र्यमात्रकम् । अनाक्षिप्तविशेषं सदाह सूत्रे पुरातने ॥२८॥ द्वितीयेन तु सूत्रेण क्रियां वा करणं च वा । ब्रुवता तस्य चिन्मात्ररूपस्य द्वैतमुच्यते ॥२९॥ द्वैतप्रथा तदज्ञानं तुच्छत्वाद्वन्ध उच्यते । तत एव समुच्चेयमित्यावृत्त्या निरूपितम् ॥३०॥ इह न किञ्चिदप्यचेतितं भवति इति चितिक्रिया सर्वसामान्यरूपा इति । चेतयति इति चेतनः पूर्ण- ज्ञानक्रियावान्, तस्य भावः 'चैतन्यं' पूर्णज्ञानक्रिया- पं० १६ ख० पु० पूर्णज्ञानवान् इति पाठः ।
६० श्रीतन्त्रालोकः । वत्त्वं, तदेव च परमैश्वर्यस्वभावं स्वातन्त्र्यमुच्यते । तदाह 'स्वातन्त्र्यमात्रकम्' इति । स्वातन्त्र्यमेव के- वलं स्वातन्त्र्यमात्रकम्, अत एवाह 'अनाक्षितवि- शेषम्' इति, 'अनाक्षिताः' स्वसहचारिणोऽपि नित्यत्वव्यापकत्वादयो 'विशेषा' भेदा येन तत् । भावप्रत्ययान्तो हि शब्दः सहचारिधर्मान्तरनिवृत्ति- मेव ब्रूते, अत एव द्रव्याभिधायिनः शब्दस्य विशेषः । यदाहुः 'धर्मान्तरप्रतिक्षेपाप्रतिक्षेपौ तयोर्द्वयोः । संकेतभेदस्य पदं ज्ञातृवाञ्छानुरोधतः ॥ भेदोऽयमेव सर्वत्र द्रव्यभावाभिधायिनोः ।' इति । 'द्वितीयेन' इति अर्थात् द्वितीयसूत्रवर्तिना ज्ञानशब्देन, ज्ञप्तिः ज्ञानं, ज्ञायते येन इति ज्ञानं च इति व्युत्पत्त्या 'क्रियां, करणं' च प्राधान्येनाभि- दधता 'तस्य'-चैतन्यमात्मा-इत्युक्तस्वरूपस्य, अत एव चेतयते इति 'चित्' चितिक्रियायां कर्ता, तन्मा- त्रमेव केवलं 'रूपं' यस्य तस्य 'द्वैतमुच्यते' कर्तृ- पं० ७ क० पु० अत एवेत्याभिधायिनः शब्दस्येति पाठः । पं० १० क० पु० भेदस्य परमित्येवंविधः पाठः ।
श्लोकः ३० ] प्रथमाह्निकम् । ६१ कर्मणोः कर्तृकर्मक्रियाणां च भिन्नानामवच्छेदका- नामाग्रूरणाद् द्वैतप्रथासूत्रणं क्रियते, पूर्णमस्य रूपं नाख्याति इत्यर्थः । 'तत्' तस्मात्संविद्वैतात्मनः पूर्णस्य रूपस्य अख्यानात् 'द्वैतप्रथा' एव 'अज्ञानम्' अपूर्णं ज्ञानमपूर्णत्वाच्च तदेव अपूर्णं मन्यता-शुभा- शुभवासना-शरीरभुवनाकारस्वभावविविधसंकुचित- ज्ञानरूपतया मलत्रयात्मा 'बन्ध' इति उच्यते, बन्धरूपत्वादेव च तदज्ञानं 'समुच्छेद्यम्' 'मलं कर्म च मायीयमाणवमखिलं च यत् । सर्वं हेयमिति प्रोक्तं ........................ ॥' इत्युक्त्या हेयमित्यर्थः । नन्वत्र द्वैतप्रथात्मकत्वा- दपूर्णं ज्ञानमेव अज्ञानम् इत्येतत्कुतोऽवगतम् इत्याशङ्क्योक्तम् 'इत्यावृत्त्या निरूपितम्' इति । 'आवृत्त्या' इति अज्ञानम् इति संहितापाततः पुनरा- वर्तनेन इत्यर्थः ॥ २८ ॥ २९ ॥ ३० ॥ पं० ६ क० पु० भुवनाकारविविधेति पाठः । पं० ७ क० पु० बन्ध इत्युच्यते इति पाठः । पं० ११ ख० पु० इत्याद्युक्त्या इति पाठः ।
६२ श्रीतन्त्रालोकः । नन्वेवं मोक्षस्य लक्षणमभिधीयताम् इत्याशङ्- क्याह स्वतन्त्रात्मातिरिक्तस्तु तुच्छोऽ तुच्छोऽपि कश्चन । न मोक्षो नाम तन्नास्य पृथङ्नामापि गृह्यते ॥ ३१ ॥ न कश्चिदन्योऽस्ति इति वाक्यशेषः । यदि तुच्छ- स्तत्पूर्वोक्तनीत्या बन्ध एव स्यात्, अतुच्छश्चेत् पार- मार्थिकत्वान्नास्य स्वतन्त्रात्मातिरेकः । यद्वक्ष्यति ‘मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः । स्वरूपं चात्मनः संवित् .................... ॥’ इत्यादि । किमुक्तं भवति, - इह तावदात्मज्ञानं मोक्ष इत्यविवादः, अतो यदेवात्मनो लक्षणं तदेव मोक्षस्य इति तन्नान्तरीयकत्वादेव अस्य लक्षणसिद्धेः पृथक्लक्षणं न कृतं, अत एव ‘नामापि’ इति अपि- शब्देन लक्षणादेः पुनः का वार्ता इत्यावेदितम् ॥३१॥ पं० ७ ख० पु० यतो यदि तुच्छ इति पाठः ।
श्लोकः ३२ ] प्रथमाह्निकम् । ६३ एवमप्यस्य तद्वैलक्षण्यं कटाक्षीकर्तुं दर्शनान्तरो- क्तस्य मोक्षस्य स्वरूपमभिधातुमुपक्रमते यत्तु ज्ञेयसतत्त्वस्य पूर्णापूर्णाप्रथात्मकम् । तदुत्तरोत्तरं ज्ञानं तत्तत्संसारशान्तिदम् ॥ ३२ ॥ ‘यत्’ पुनः ‘ज्ञेयस्य’ कला-तत्त्व-भुवनाद्यात्मनोऽध्वनः यत् ‘सतत्त्वम्’ ऊर्ध्वोर्ध्वमन्योन्यं च भेदेनावस्थानं, तस्य ‘उत्तरोत्तरम्’ उपर्युपरिभावेन तत्तद्भुवनाद्युल्ल- ङ्घनक्रमेण तत्तदवच्छेदापगमात् यथायथमतिश- याद् द्वैतप्रथात्मकत्वात् संकुचितत्वेऽपि ‘पूर्णा- पूर्णाप्रथात्मकं ज्ञानम्’ [ उदेति तदधरीकृततत्त्वजालो- ल्लङ्घनात् ‘चतुर्दशविधं६ यच्च प्रोक्तं संसारमण्डलम् ।’ इत्याद्युक्तेः ‘तस्य तस्य’ चतुर्दशविधयोन्यात्मनः ‘संसारस्य’ ‘शान्तिदं’ तत उन्मोचकमित्यर्थः । ६ चतुर्दशविधत्वं संसारस्योक्तं यथा— ‘अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति । मानुष्यश्चैकविधः समासतो भौतिकः सर्गः ॥’ इति ।
६४ श्रीतन्त्रालोकः । ज्ञानस्य हि मोचनमेव धर्मः, किंतु संकुचितस्यासं- कुचितत्वम् ॥ ३२ ॥ एतदेव दर्शयति रागाद्यकलुषोऽस्म्यन्तः- शून्योऽहं कर्तृतोज्झितः । इत्थं समासव्यासाभ्यां ज्ञानं मुञ्चति तावतः ॥ ३३ ॥ 'इत्थं' प्रथमार्धनिरूपितस्वरूपं 'ज्ञानं' 'तावतः' परिमिताद् बन्धात्, अर्थात् बौद्धादीन्मुञ्चति इति संबन्धः । तत्र 'रागाद्यकलुषोऽहं भवामि' इति ज्ञानं योगाचाराणाम् । यदाहुः 'रागादिकलुषं चित्तं संसारस्तद्विमुक्तता । संक्षेपात्कथितो मोक्षः प्रहीनावरणैर्जिनैः ॥' इति । तथा 'प्रभास्वरमिदं चित्तं प्रकृत्यागन्तवो मलाः । तेषामपाये सर्वार्थं तज्ज्योतिरविनश्वरम् ॥' पं० १ क० पु० किं तु पदं नास्ति, पं० १२ ख० पु० संसारस्तद्विविक्तता इति पाठः । पं० १४ ख० ग० पु० प्रकृत्या तनवो मला इति पाठः ।
श्लोकः ३३ ] प्रथमाह्निकम् । ६५ इति । अयमत्रार्थः - प्रकृतिप्रभास्वरस्य चित्तस्य अनाद्यविद्यावशाद्रागादिभिरागन्तुकैर्मलैरावृतत्वेन संसाराविर्भावेपि भावनाद्यात्मकमार्गानुष्ठानबलात्- त्तदागन्तुकमलप्रहाणेन आश्रयपरावृत्त्या अविनश्वर- ज्योतीरूपस्वरूपाभिव्यक्तिर्मोक्ष इति तदयुक्तं,-भा- वना ह्यत्र भवद्भिः कारणमिष्यते, सा क्षणक्षयिणां चित्तक्षणानां विशेषमाधातुं नोत्सहते, तस्याः स्थि- रैकाश्रयगतत्वेन विशेषाधानक्षमत्वात् । तथाहि- स्थायिनस्तिलादयो भावाः स्थायिभिरेव सुमनोभि- र्वास्यन्ते, तथेयमपि स्यात्, अतश्च प्रतिक्षणमपूर्वत्वेन उपजायमानस्य निरन्वयविनाशिलङ्घनाभ्यासवत् अनासादितातिशयस्य चित्तक्षणस्य प्रभास्वरचित्त- क्षणोपजननाय भावना न प्रभवेत् इत्यनया कोऽर्थः । समलाश्च चित्तक्षणाः स्वारसिक्याः सदृशारम्भ- णशक्तेः स्वसदृशानेव चित्तक्षणानुत्पादयितुं क्षमन्ते, न विसदृशान् प्रभास्वरान् । एवं च चित्तक्षण- भङ्गुरत्वान्मलप्रहाणायैव भावना न प्रगल्भेत पं० ७ ख० पु० विशेषमभिधातुमिति पाठः । पं० १७ ख० पु० न भावना प्रगल्भते इति पाठः । ६
६६ श्रीतन्त्रालोकः । इत्याश्रयपरावृत्तेः का वार्त्ता इति कृतं क्षणिकवा- दिनां मोक्षेण । बन्धमोक्षौ च स्थिरैकादिपक्षे युज्येते, बद्धो हि मोक्षाय प्रवर्तते, प्राप्य च निवृत्तो भवति इति, सन्तानश्चैको न विद्यते, तस्य भेदा- भेदविकल्पोपहृतत्वात् । 'अन्तः' संविद्रूपतायामपि 'शून्यो ऽ हं' भवामि इति ज्ञानं माध्यमिकानाम् । ते खलु सर्वभावनैःस्वाभाव्यवादिनः संविदोऽपि नैःस्वा- भाव्यान्मिथ्यात्वमभिदधतस्तच्छून्यतायामेव मोक्ष- माचक्षीरन् । यदाहुः 'चित्तमात्रमिदं विश्वमिति यादेशना मुनेः । तत्रासपरिहारार्थं बालानां सा न तत्त्वतः ॥ सापि ध्वस्ता महाभागैश्चित्तमात्रव्यवस्थितिः ।' इति, तदप्ययुक्तं,-संविदो हि मिथ्यात्वेन स्वतन्त्र- रूपापाकरणेऽपि मिथ्यात्वे सत्तैव न भवेत्, तस्याः नीलादिवत् परतन्त्ररूपत्वाभावात्, नीलादीनां हि मिथ्यात्वेन स्वतन्त्ररूपापाकरणे ऽ पि संविदात्मत- पं० १ ग० पु० आशयपरावृत्तेरिति पाठः । पं० ४ ख० पु० संतानश्चैकेन विद्यते इति पाठः । पं० ७ ख० पु० स्वभाववादिन इति, नैःस्वभावादिति च पाठः ।
श्लोकः ३३ ] प्रथमाह्निकम् । ६७ याऽस्त्यवस्थानं, संविदि तु स्फुरत्तामात्रसारायां मिथ्यात्वादसत्त्वमेव स्यात् इति न किंचित्स्फुरेत् इति मूर्च्छैव स्यात् इति। न च संविदः स्फुरत्तामात्र- साररूपाया अपह्नवः शक्यक्रियः इति यत्किंचिदेतत्। अथ 'सर्वालम्बनधर्मैश्च सर्वसत्त्वैरशेषतः । सर्वक्लेशाशयैः शून्यं न शून्यं परमार्थतः ॥' इत्याद्युक्तयुक्त्या ग्राह्यग्राहकभावादिना कल्पि- तेन रूपेण शून्यं, न तु संविदापि इति चेत्, एवं ह्युच्यमाने विज्ञानवादे एवाभ्युपगमः स्यात्, सोऽपि हि कल्पितपरतन्त्रादिरूपशून्यत्वेन 'इत्यन्तःकरणस्यैव विचित्रात्मावभासिनः । अविभाविततत्त्वस्य विस्फूर्जितमिदं जगत् ॥' इत्याद्युक्तैर्विज्ञप्तिमेव परमार्थसतीमभ्युपागमत् इति पं० ३ क० पु० सूत्कैव स्यादिति, ग० पु० स्फुरत्तासाररूपाया इति च पाठः । पं० ८ क० पु० भावनादिना इति पाठः । पं० १३ क० पु० अवभासिततत्त्वस्येति पाठः । पं० १४ क० पु० परमार्थमभ्युपागमदिति पाठः । ग० पु० विज्ञप्तमेव परमार्थ- सत्त्वमभ्युपगतमिति पाठः ।
६८ श्रीतन्त्रालोकः । न नवं किंचिदायुष्मतोत्प्रेक्षितम् । तत्र चोक्तो दोषः ‘अकर्ताहं भवामि’ इति ज्ञानं सांख्यानाम् । ते हि निष्क्रियमेवात्मानमभ्युपागमन्, अन्यथा हि तस्य चैतन्यं न स्यात्-अचेतनानामेव क्षीरादीनां क्रिया- वत्त्वोपलब्धेः । अयुक्तं चैतत्,-अकर्तृत्वे हि पुरुषस्य अनिर्मोक्षः स्यात्, अकिंचित्करत्वे हि पुरुषस्योत्प- न्नेऽपि विवेकदर्शने स्वरूपेणावस्थानं न स्यात्,- प्रवृत्तिस्वभावायाः प्रकृतेरौदासीन्यायोगात्, तं प्र- त्यपि पुनः संभावनायाः संभवात् । न च प्रकृतेः ‘दृष्टाहमनेन’ इति ‘न पुनरेतदर्थमहं प्रवर्ते’ इत्य- नुसन्धानमस्त्याचैतन्यादस्याः - प्रेक्षाकारित्वाभा- वात् । एवं चेयं कृतेऽपि शब्दाद्युपलम्भे यथा पुनस्तदर्थं प्रवर्त्तते, तथा कृतायामपि विवेकख्यातौ पुनरपि तदर्थं प्रवर्त्तिष्यते,-स्वभावस्यानपेतत्वात् । एवमपि कृतमकृतं न भवति - इति संकुचितमपि पं० १ क० पु० चोक्तदोष इति समस्तः पाठः । पं० ६ क० पु० उत्पन्नेऽपि प्रकृतिपुरुषविवेकेति पाठः । पं० १२ क० पु० अकृतं भवति इति पाठः ।
श्लोकः ३३ ] प्रथमाह्निकम् । ६९ ज्ञानं बौद्धादीनां निजोचितार्थक्रियां विदध्यात् । तथाहि बौद्धाः 'एकमेवेदं संविद्रूपं हर्षविषादाद्यनेकाकारविवर्तं पश्यामः॥' इत्याद्युक्तयुक्त्या बुद्धिवृत्त्यात्मकं ज्ञानमेव तत्त्वं प्रति- पन्नाः इति बुद्धितत्त्वप्राप्तिरेवैषां मोक्षः । तदुक्तं 'ब्रह्मा तत्राधिपत्वेन बुद्धितत्त्वे व्यवस्थितः । सर्वज्ञं च तमेवाहुर्बौद्धानां परमं पदम् ॥' इति । अत एवैषां बुद्धितत्त्वाधोवर्तिनः संसारस्य शान्तिः । एवं च 'ज्ञानं मुञ्चति तावतः' इति युक्तमुक्तम् । सांख्याश्च सुखदुःखाद्यात्मकप्रकृतिपृथ- ग्भावेन पुंस एव स्वरूपेणावस्थानं तत्त्वं प्रतिपन्नाः इति पुंस्तत्त्वप्राप्तिरेवैषां मोक्षः । तदुक्तं 'पौरुषं चैव सांख्यानां सुखदुःखादिवर्जितम्।' इति । नैरात्म्यदृष्टेश्चात्मदृष्टिर्विशिष्यते, इति सां- ख्यानां बौद्धेभ्यः पूर्णप्रथात्मकं ज्ञानम् इत्येषां बुद्धि- तत्त्वोर्ध्ववर्तिपुंस्तत्त्वप्राप्तिः । एवं च पूर्णप्रथात्मकमु- पं० ५ क० पु० प्राप्तिरेषां इति पाठः । पं० ६ ख० पु० ब्रह्मैवात्राधिपत्येनेति पाठः ।
७० श्रीतन्त्रालोकः । त्रोत्तरं ज्ञानम्, इत्यादिः पूर्वसूत्रप्रतिज्ञातोऽर्थो निर्वाहितः । एवं सांख्यपातञ्जलयोः प्रकृतिपृथग्भा- वेन पुंज्ञानस्य साम्येऽपि सांख्येभ्यः पातञ्जलानामी- श्वरप्रणिधानात् तद्विशिष्यते, इति तेषां पुंस्तत्त्वो- र्ध्ववर्तिनियतितत्त्वप्राप्तिरुक्ता । ‘षड्विंशकं तु देवेशि योगशास्त्रे परं पदम् ।’ इति । एवं च मौसुलपाशुपतादीनामपि यथायथं ज्ञानातिशयादूर्ध्वोर्ध्वतत्त्वावाप्तिः परं पदम् इति । तदुक्तं ‘मौसुले कारुके चैव मायातत्त्वं प्रकीर्तितम् ।’ इति । तथा ‘व्रते पाशुपते प्रोक्तमैश्वरं परमं पदम् ।’ इति । तत्रैवं बौद्धादीनां मायीयादेव मलादंशां- शिकया, मौसुलानां कार्मादपि, पाशुपतानाम् अनात्मनि आत्माभिमानात् आणवादपि मलान्मो- चकं ज्ञानम् इत्युक्तं ‘समासव्यासाभ्याम्’ इति ३३॥ पं० ४ क० पु० प्रणिधानाद्विशिष्यते इति पाठः । पं० ६ क० पु० षड्विंशकं महादेवीति पाठः । पं० १५ ख० पु० आत्मताभिमानादिति पाठः ।
श्लोकः ३४ ] प्रथमाह्निकम् । ७१ ननु स्वदर्शनौचित्येन एवं बन्धविगलनेऽपि किमिति नासौ मुक्तः इत्याशंक्याह तस्मान्मुक्तोऽप्यवच्छेदादवच्छेदान्तरस्थितेः । अमुक्त एव मुक्तस्तु सर्वावच्छेदवर्जितः ॥ ३४ ॥ ‘......अध्वा बन्धस्य कारणम् ।’ इत्युक्तेः अध्वा तावद्वन्धकः । तत्र बौद्धादयो बुद्धि- तत्त्वान्तबन्धविगलनात् तन्मुक्ता अपि तदूर्ध्ववर्त्य- ध्वान्तरावच्छेदस्थितेरमुक्ता एव, अत एवैषां पुनरपि सर्गारम्भे सृज्यमानत्वात् संसाराविर्भावो,– बन्धकारणस्य निःशेषेणाप्रक्षयात् । यद्वक्ष्यति ‘सांख्यवेदादिसंसिद्धान् श्रीकण्ठस्तदहर्मुखे । सृजत्येव पुनस्तेन न सम्यङ्मुक्तिरीदृशी ॥’ इति । श्रीस्वच्छन्दशास्त्रेऽपि पं० ६ ख० पु० इत्याद्युक्तेरिहाध्वा तावदिति पाठः । पं० ७ ख० पु० तत्त्वान्तर्बन्धविगलनात् इति पाठः । क० पु० विगलनान्मुक्ता इति पाठः । पं० ८ ख० पु० अवच्छेदावस्थितेरिति पाठः । पं० १० ख० पु० निःशेषेणाक्रमात् इति प्रथमपाठः संदृश्यते । पं० १२ क० पु० पुनस्तस्मादिति, ख० पु० न सङ्घन्मुक्तिरिति पाठः ।
७२ श्रीतन्त्रालोकः 'लौकिकानां पुनः सृष्टिः पुनः संहार एव च । संसारचक्रमारूढा भवन्ति घटयन्त्रवत् ॥' इत्यादि सामान्येनाभिधाय 'मुक्तं च प्रतिबन्धात्तं पुनर्बध्नाति चेश्वरः । बन्धः संसारतो भूयो यावद्देवं न विन्दति ॥' इति बौद्धाद्यवान्तरदर्शनमुक्तोपलक्षणपरतया विशे- षेणोक्तम् । यः पुनर्निःशेषप्रक्षीणसर्वाध्वबन्धः स एव साक्षान्मुक्तः इत्याह 'मुक्तस्तु सर्वाविच्छेद- वर्जितः' इति । यदुक्तं 'सर्वाध्वनो विनिष्क्रान्तं शैवानां तु परं पदम् ।' इति । तथा 'शैवः सिद्धो भाति मूर्ध्नातिरेषां मुक्तः सृष्टौ पुनरभ्येति नाथः ।' इति ॥ ३४ ॥ अत्र चैवं-विधमेव पूर्णं ज्ञानं निमित्तम् इत्याह यत्तु ज्ञेयसतत्त्वस्य ज्ञानं सर्वात्मनोज्झितम् । अवच्छेदैर्न तत्कुत्राप्यज्ञानं सत्यमुक्तिदम् ॥३५॥ पं० १ क० पु० पुनः संसार इति पाठः । पं० ५ ख० पु० यावद्देहं न विन्दति इति पाठः । पं० ६ क० पु० बद्धयातयेति पाठः ।