भारतकोश
तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

Tantrasara of Mahamaheshvara Abhinavagupta with Commentary

महामाहेश्वर अभिनवगुप्त द्वारा

DevanagariHindipublished294 पृष्ठ

पृष्ठ 106, कुल 294 में से

संदर्भ में पढ़ें
पृष्ठ 106

आ. ४ ] तन्त्रसार-अभिनवगुप्त [ २५ 'क्षेपाज्ज्ञानाच्च काली कलनवशतयाथ...।' इति । एष च अर्थः तत्र तत्र मद्विरचिते विवरणे प्रकरणस्तोत्रादौ वितत्य वीक्ष्यः । न अतिरहस्यम् एकत्र ख्याप्यं न च सर्वथा गोप्यम् इति हि अस्मद्गुरवः । तदेवम् यदुक्तं यागहोमादि तत् एवं-विधे महेश्वर एव मन्तव्यम् । सर्वे हि हेयमेव उपादेयभूमिरूपं विष्णोतः प्रभृति शिवान्तं परमशिवतया पश्यन्ति, तच्च मिथ्यादर्शनम् अवश्यत्याज्यम् अनुत्तरयो- गिभिरिति, तदर्थमेव विद्याधिपतेः अनुभवस्तोत्रे महान् संरम्भः, एवं- विधे यागादौ योगान्ते च पञ्चके प्रत्येकं बहुप्रकारं निरूढिः यथा यथा भवति तथैव आचरेत्, न तु भक्ष्याभक्ष्यशुद्धाशुद्ध्यादिविवेचनया वस्तुधर्मोज्झितया कल्पनामात्रसारया स्वात्मा खेदनीय इति उक्तं श्रीपूर्वादौ, न हि शुद्धिः वस्तुनो रूपं नीलत्ववत्, अन्यत्र तस्यैव अशुद्धि- चोदनात्, दानस्येव दीक्षितत्वे, चोदनातः तस्य तत् तत्र अशुद्धम् इति चेत् चोदनान्तरेऽपि तुल्यं, चोदनान्तरम् असत्—तद्बाधितत्वात् इति चेत् न, शिवचोदनाया एव बाधकत्वं युक्तिसिद्धं सर्वज्ञानोत्तराद्यनन्ता- गमसिद्धं च इति वक्ष्यामः । तस्मात् वैदिकात् प्रभृति पारमेश्वरसिद्धान्त- तन्त्रकुलोच्छुष्मादिशास्त्रोक्तोऽपि यो नियमो विधिः वा निषेधो वा सोऽत्र यावदकिंचित्कर एव इति सिद्धम् । तथैव च उक्तं श्रीपूर्वादौ, वितत्य तन्त्रालोकात् अन्वेष्यम् । यो निश्चयः पशुजनस्य जडोऽस्मि कर्म- संपाशितोऽस्मि मलिनोऽस्मि परेरितोऽस्मि । इत्येतदन्यदृढनिश्चयलाभसिद्ध्या सद्यः पतिर्भवति विश्ववपुश्चिदात्मा ॥ यथा यथा निश्चय ईदृगाप्यते तथावधेयं परयोगिना सदा । न वस्तुयाथात्म्यविहीनया दृशा विशङ्कितव्यं शिशुदेशनागणैः ॥ जह जह जस्सु जहिं चिव पफुरइ अज्जवसाउ । तह तह तस्सु तहिं चिव तारिसु होइ पहाउ ॥ हतं मलिणउ हतं पसु हतं आ अह सअलभावपडलवत्तिरित्तउ ।