भारतकोश
तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

Tantrasara of Mahamaheshvara Abhinavagupta with Commentary

महामाहेश्वर अभिनवगुप्त द्वारा

DevanagariHindipublished294 पृष्ठ

पृष्ठ 120, कुल 294 में से

संदर्भ में पढ़ें
पृष्ठ 120

आ. ५ ] तन्त्रसार-अभिनवगुप्त [ ३९ व्याप्याथ विश्राम्यति ता इमाः स्युः शून्येन साकं षडुपायभूम्यः । प्राणादयो व्याननपश्चिमास्त- ल्लीनश्च जाग्रत्प्रभृति प्रपञ्चः ॥ अभ्यासनिष्ठोऽत्र तु सृष्टिसंहृद्विमर्शधामन्यचिरेण रोहेत् । इति आन्तरश्लोकाः । इति उच्चारणम् । अथ सूक्ष्मप्राणात्मा वर्णः अस्मिन् एव उच्चारे स्फुरन् अव्यक्तानुकृतिप्रायो ध्वनिः वर्णः, तस्य सृष्टिसंहारबीजे मुख्यं रूपं, तदभ्यासात् परसंवित्तिलाभः, तथाहि— कादौ मान्ते साच्के अनच्के वा अन्तरुच्चारिते स्मृते वा समविशिष्टः संवित्स्पन्दस्पर्शः समयानपेक्षित्वात् परिपूर्णः, समयापेक्षिणोऽपि शब्दाः तदर्थभावका मनोरज्यादिवत्, अनुत्तरसंवित्स्पर्शात् एकीकृतहृत्कण्ठोष्ठो द्वादशान्तद्वयहृदयं च एकीकुर्यात् इति वर्णरहस्यम् । अन्तःस्फुरद्विमर्शा- नन्तरसमुद् भूतं सितपीताद्यान्तरं वर्णम् उद्भाव्यमानं संविदम् अनुभाव- यति इति केचित् । वाच्यविरहेण संवित्स्पन्दादिन्दूर्कगतिनिरोधाभ्याम् । यस्य तु समसंप्रवेशात् पूर्णा चिद्बीजपिण्डवर्णविधौ ॥ इति आन्तरश्लोकः । इति वर्णविधिः करणं तु मुद्राप्रकाशने वक्ष्यामः । विकल्पः कस्यापि स्वयमनुपपन्नपूर्णमयता- मुपायात्संस्कारं व्रजति स उपायोऽत्र बहुधा । धियि प्राणे देहे तदनु बहिरित्याणवतया स निर्णीतो नैषां परफलविधौ कापि हि भिदा ॥ सुण्णउ रविससि दहन सउ उस्सउ एहु सवीरु । उहि अच्छन्तउ परमपउ पावइ अच्चिरे वीरु ॥ इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे आणव- प्रकाशनं नाम पञ्चममाह्निकम् ।