तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)
Tantrasara of Mahamaheshvara Abhinavagupta with Commentary
महामाहेश्वर अभिनवगुप्त द्वारा
पृष्ठ 132, कुल 294 में से
संदर्भ में पढ़ेंआ. ६ ] तन्त्रसार-अभिनवगुप्त [ ५१ तत्र कृष्णपक्षे प्राणार्के अपानचन्द्र आप्यायिकाम् एकामेकां कलाम् अर्पयति, यावत् पञ्चदश्यां त्रुटौ द्वादशान्तसमीपे क्षीणपृथग्भूतकलाप्रसरः चन्द्रमाः प्राणार्क एव लीयते। तदनन्तरं यत् त्रुट्यर्धं स पक्षसंधिः । तस्य च त्रुट्यर्धस्य प्राच्यम् अर्धम् आमावस्यं, द्वितीयं प्रातिपदं । तत्र प्रातिपदे तस्मिन् भागे स आमावस्यो भागो यदा कासप्रतन्नावधानादि- कृतात् तिथिच्छेदात् विशति तदा तत्र ग्रहणम्, तत्र च वेद्यरूपसोम- सहभूतो मायाप्रमातृराहुः स्वभावतया विलापनाशक्तः केवलम् आच्छादनमात्रसमर्थः सूर्यगतं चान्द्रं अमृतं पिबति इति । प्रमातृप्रमाण- प्रमेयत्रितयाविभागकारित्वात् स पुण्यः कालः पारलौकिकफलप्रदः । ततः प्रविशति प्राणे चिदर्क एकैकया कलया अपानचन्द्रम् आपूरयति, यावत् पञ्चदशी त्रुटिः पूर्णिमा, तदनन्तरं पक्षसंधिः ग्रहणं च इति प्राग्वत्, एतत् तु ऐहिकफलप्रदम्, इति मासोदयः । अथ वर्षोदयः । तत्र कृष्णपक्ष एव उत्तरायणं षट्सु अङ्गुलेषु संक्रान्तिः मकरात् मिथुनान्तं । तत्र प्रत्यङ्गुलं पंच तिथयः तत्रापि दिनरात्रिविभागः, एवं प्रवेशे दक्षिणायनं, गर्भत्वम्, उद्भवेच्छा, उद्बुभूषुता, उद्भविष्यत्वम्, उद्भवारम्भः, उद्भवत्ता, जन्मादिविकार- षट्कं च इति क्रमात् मकरादिषु इति । तथैव उपासा अत्र फलं समुचितं करोति। अत्र च दक्षाद्याः पितामहान्ता रुद्राः शक्तयश्च द्वादशाधिपतय, इति वर्षोदयः । प्रत्यङ्गुलं षष्टिः तिथय इति क्रमेण संक्रान्तौ वर्षम् इत्यनेन क्रमेण प्रवेशनिर्गमयोः द्वादशाब्दोदयः, प्रत्यङ्गुलं तिथीनां शतत्रयं, सपंञ्चां- शेऽङ्गुले वर्षं, यत्र प्राक् चषकम् उक्तम् इति गणनया संक्रान्तौ पञ्च वर्षाणि, इति अनया परिपाट्या एकस्मिन् प्राणनिगमप्रवेशकाले षष्ट्यब्दोदयः, अत्र एकविंशतिसहस्राणि षट् शतानि इति तिथीनां संख्या । तावती एव अहोरात्रे प्राणसंख्या, इति न षष्ट्यब्दोदयात् अधिकं परीक्ष्यते आनन्त्यात् । तत्र मानुषं वर्षं देवानां तिथिः, अनेन क्रमेण दिव्यानि द्वादशवर्षसहस्राणि चतुर्युगम् । चत्वारि त्रीणि द्वे एकम् इति कृतात् प्रभृति तावद्भिः शतैः अष्टौ संध्याः। चतुर्युगानाम् एकसप्तत्या मन्वन्तरम्, मन्वन्तरैः चतुर्दशभिः ब्राह्मं दिनं, ब्रह्मदिनान्ते कालग्निसंधे लोकत्रये अन्यत्र च लोकत्रये धूमप्रस्वापिते सर्वे जना वेगवदग्निप्रेरिता जनलोके प्रलयाकलीभूय तिष्ठन्ति । प्रबुद्धास्तु कूष्माण्डहाकेशाद्या